Book Title: Anusandhan 1995 00 SrNo 05
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 22
________________ (१५) श्रुतिशाखान्तरे शास्त्रे करणे व्यर्थसाधके। इति कर्तव्यता तन्वो ०॥ इति हैमानेकार्थकोशः॥ कतिधा ? इत्याह-षड्विधा। षट् षट्सङ्ख्याकाः विधाः प्रकाराः अस्या इति षड् = विधाः षट् = प्रकाराः।। अयमभिप्रायः- सर्वस्यापि शब्दानुशासनादिशास्त्रस्य व्याख्यायाः षड्भेदा भवन्तीति भावार्थः। अथ ग्रन्थकारस्तान् भेदान् यथानुक्रमं व्यनक्ति प्रकटयति। तत्र तावत् संहिता इति संज्ञायाः कः शब्दार्थः ? संधीयते इति संहिता, अस्खलितपाठोच्चार इति यावत् । किमुक्तं भवति ? । अस्खलिततया मुखे सूत्रपाठोच्चारणं संहिता इति तात्पर्यम्। इति प्रथमो भेदः (१) ॥ चः पुनरर्थे। "पुनरर्थेपि किं च तु" इति हैमानेकार्थकोशः। च पुनः। पदं पदमित्यस्य कोऽर्थः ? विभक्त्यन्तं पदम्। विभज्यन्ते पृथक् क्रियन्ते कर्तृकर्मादयो यया सा विभक्तिः। सा विभक्तिः द्विप्रकारा। एका स्यादिः॥ सि औ जस् इति प्रथमा १ अम् औ शस् इति द्वितीया २ टा भ्याम् भिस् इति तृतीया ३ ड्रेभ्याम् भ्यस् इति चतुर्थी ४ ङसि भ्याम् भ्यस् इति पञ्चमी ५ ङस् ओस् आम् इति षष्ठी ६ ङिओस् सुप् इति सप्तमी ७ एकैकस्याः विभक्तेस्त्रीणि त्रीणि वचनानि। एक वचन १ द्विवचन २ बहुवचन ३ संज्ञानि भवन्तीत्यादिरूपा। अपरा त्यादिः। तिव तस् अन्ति ते आते अन्ते सिव् थस् थ से आये ध्वे मिव् वस् मस् ए वहे महे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110