Book Title: Anusandhan 1995 00 SrNo 05
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 27
________________ (२०) आद्योत्तराः प्रथमादिका विभक्तयस्तत्पुरुषे भवन्ति। उत्तरपदप्रधानः तत्पुरुषः। तत्र पूर्वपदे सप्तापि विभक्तयः स्यु । उत्तरपदे प्रायः प्रथमैव। यथा - शोभनो राजा - सुराजा। पूजितो राजा - सुराजेत्यर्थः। "उपसर्गाः क्रियायोगे गतिश्च प्रादयोऽपि"। तथा "प्रादयो गताद्यर्थे प्रथमया अमादा"वित्यस्येत्येवं प्रपञ्चेत्यनेन समासः। यथा - धर्मं श्रितो - धर्मश्रितः। मदेन पटुः - मदपटुः। जीवेभ्यो हितम् - जीवहितम्। जनेभ्यः सुखम् - जनसुखम्। वृकाद् भयम् - वृकभयम्। राज्ञः पुरुषो - राजपुरुषः। समरे सिंह इव - समरसिंहः। "अमादौ तत्पुरुष" इति सूत्रेण समासः। उत्तरपदे प्रायः प्रथमेति प्रायोवचनात् क्वचित् प्रथमाद्याः विभक्तयो यथासूत्रमुत्तरपदेऽपि स्यु। अन्यपदार्थे प्रधानत्वं च। यथा - प्रगत आचार्यः प्राचार्यः। प्रकृष्टो वीरः प्रवीरः। (१) अतिक्रान्तः खट्वाम् अतिखट्वः। (२) अवक्रुष्टः कोकिलया अवकोकिलः। (३) परिग्लानोऽध्ययनाय पर्यध्ययनः। (४) निर्गतः कौशाम्ब्या निष्कौशाम्बिः। (५) एषु सर्वेषु क्वचिदमाद्यन्तस्य परत्वमिति सूत्रेण समासः। कुम्भं करोतीति कुम्भकारः। "नाम्नश्च कृता समास" इति सूत्रेण समासः। न गौः अगौः। "नबि" इति सूत्रेण समासः। प्राचार्यादयो नित्यसमासा अस्वपदविग्रहत्वात्। इति तत्पुरुष समासः॥ २ चाभ्याम् ॥ व्याख्या- तदा तच्छब्देनान्तरस्थेन प्रसिद्धया तु अदःशब्देन, चाभ्यां च चकाराभ्यां द्वाभ्यां विशेषणैः सह, गुणी विशेष्यं कर्मधारये समस्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110