Book Title: Anusandhan 1995 00 SrNo 05
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 12
________________ एवं 'सत्तास' इति षोढा। यथा -सत्रासः सभयः १। सप्ताश्वः सूर्यः २। सत्त्वाशो जीवादनः ३। शक्ताश्वो रथः ४। शप्ताश आक्रुष्टाभिलाष: ५। सत्त्वासः शूरः ६। एते षट्।। इति प्रथमगाथार्थः॥ सयलो अट्ठविहाणो सत्तसु भेएसु पयडिओ सवओ। पययत्ति सत्तभेओ पंचसु भेएसु सुइ सद्दो॥ ४॥ 'सयल' इत्ययं संस्कृतेनाष्टधा। यथा-शकलः खण्डः १। सकलं समग्रं २। सदलः सपत्रः सकटको वा ३। सजलं सनीरं ४। सतलं साधारं ५। सचलं सकम्पं ६। सगलः सकण्ठः ७। स्वकल आत्मवर्गग्राहक: ८ इत्यष्टौ। 'सवय' इति सप्तधा। यथा -स्वपदं स्वस्थानं १। श्रवको दाता २। सव्रतः सानुष्ठानः ३। सव्रजः सगोकुलः ४। सवया वृद्धः समानो वा ५ । सवचा वाग्मी ६। सबको बक्युतः ७। एते सप्त। 'पयय' इति सप्तधा। यथा-पयो कमलं १। पयोदो मेघः २। पयोगा नदी ३। पतगः पक्षी ४। पदगः पदाति: ५। प्रकृतं प्रस्तुतं ६। प्रगतः प्रचलितः ७। एते सप्त।। "सुइ' इति पञ्चधा । यथा - श्रुतिर्वेदाधनेकार्थः १। श्रुतिः प्रवाहः २। शुचिराषाढाद्यनेकार्थः ३। शुदिः शुक्लपक्षो लोकप्रसिद्धः ४। शुचिः स्नानं ५। एते पञ्च ॥ 'सुरयण' सद्दो पञ्चसु, छसु भाणिओ अप्पमाणसद्दो य। तह तब्भेओ अमओ चउसुं अणहत्ति भणियव्वो॥ ५॥ अत्र 'सुरयण ' इति पञ्चधा भवति । यथा-सुरगणो देवसमुदायः १। सुरदनः सुदन्तः २। सुरचनं विशिष्टरचनायुक्तं वस्तु ३ । सुरत्नं पद्मरागादि दोषरहितं ४। सुरजनं शोभनरागः ५। एते पञ्च॥ 'अप्पमाण' इति षोढा । यथा-अप्रमाणोऽमर्यादाद्यनेकार्थः १। अल्पमानः स्वल्पाहंकार: २। आत्ममान आत्मतुल्यः ३। आप्यमानः प्राप्यमानः ४। अर्घ्यमाणो ढौक्यमानः ५। अप्रमाज्ञो महच्छासनः ६। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110