Book Title: Anusandhan 1995 00 SrNo 05
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
(१०)
'गयाहरः' पञ्चधा । यथा-गदाधरः १ । गदाहरो गदाचौरः २ । गताधरो विगतौष्ठः ३। गजाखरो हस्तिकोमलः ४। गवा वृषभेन आ समन्तात् चरतीति गवाचरः, ईश्वरो वा ५॥
'पओहर:' पञ्चधा। पयोधरो मेघादि: १। पयोहरो वडवाग्निरगस्तिर्वा २ : पयोभरो जलौधः ३। पयोगृहं समुद्रादिः ४। प्रगोखरं शोभन गोरासभं ५ ।।
'पाययो'ऽष्टधा। यथा -प्राकृत इतरजनः १। प्र(प्रा)गतं वर्य(र्या)गमनं २। पातकं अधर्मः ३। पातगः शीघ्रगामी ४। पादगः पदात्यादिः ५। प्रापदः प्रकृष्टज्ञानदः ६। पातजं श्रमः ७। पातयेति क्रिया ८॥
___'परयार:' षडों यथा-परदारः परभार्य: कापुरुषः २ । परकारः परप्रेरक: २ । परचारः परगतिः ३। परतारः परोद्धारक: ४। परजार: ५। परगारः परनिगरणं ६॥
_ 'पहायर:' षोढा। यथा-प्रभाकरो रविः १ । प्रभाचरो ज्योतिर्गमनं २। प्रभातरः प्रभातदाता सूर्यादि: ३। प्रभाजरः कान्त्या जीर्ण: ४। प्रभादरः कान्तिभयं ५। प्रभातरः प्रहारदः ६॥
सरयं सयणं सणयं गयणयरं सहिअ तहय सुव्वत्तं । मयणाही सामलया अट्ठासु इ(वि) पंचहा सद्दो ॥१३॥
'सरया'द्या पञ्चार्थाः। यथा-शरदृतुः १। शरदः शरखण्डकः शरप्रदः २। सरदः सदन्तः ३। सरको मद्यं ४। सरयः सवेगः ५।
"सयणः' पञ्चधा। शयनं पर्यङ्कादिः १। सजनो जनसहितः २। सदनं गृहं ३। सकणं कणसहितं सशब्दं वा ४। सगणः ससमूहः ५॥
"सणयः' पञ्चधा। सनयो नयसहितः १। सनगः सपर्वतः सवृक्षो वा २। सनतः ३। स्वनदः स्वशब्दः ४। सनकः पूज्यनरः ५॥
'गयणयरः' पञ्चधा। गगनचरः सूर्यादिः १। गतनगरो विपुरः २। गदनतरं प्रकृष्टवचः ३। गतनयरो गतन्यायप्रदः ४। गगनकरः आकाशकरः ५।
'सहियः पञ्चधा। सहितो हितयुक्तः १। सखितः सख्युः २। सखिदः सखिप्रदः ३। स्वहित आत्महितः ४। सखिगो मित्रसहगामी ५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110