SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ (७) 'सवह' इति पञ्चधा । यथा - स्वपत स्वापं कुरुत १ । शपथः प्रतिज्ञा २ । सपथः समार्गः ३ । सवहः सवाहनः ४ । स्ववध आत्मवधः ५ ॥ 'अहिमयरः' पञ्चार्थो यथा - अधिमकरः समुद्रः १ । अहिमकरः सूर्यः २ । अहिमचरः सर्पः ३ । अभिमतरोऽभीष्टदाता ४ | अहिमतरोऽत्युष्णः ५ ॥ 'सहा' इत्ययमपि पञ्चार्थो यथा - स्वाभा स्वदीप्ति: १ । सभा परिषत् २ । सखा मित्रं ३ | स्वधा पितृवध: ४ । स्वहा आत्मघातकः ५ ॥ इति पञ्चमगाथार्थः ॥ आसासत्ति चउद्धा आयासं मुणह तह य तब्भेयं । पव्वइओ तह य च्चिय भणिओ कुहरति पंचविहो ॥ ८ ॥ 'आसासा' शब्दश्चतुर्धा । यथा - आश्वासः संधारणं १ | आशाशं दिशिदिशि २ । आश्वास्यं हयमुखं ३ | आशास्यमाशंसनीयं ४॥ 'आयास' श्चतुर्धा । यथा - आकाशं खं १ । आयासः खेदः २ । आयाशो आयभोक्ता ३ । आदासं दासपर्यन्तं ४ ॥ 'पव्वइय' श्चतुर्धा । यथा - पार्वतिकः पर्वतनिवासी लोकः १ । प्रवजितो व्रती २ । पर्व इतः सन्धिगतः ३ । पर्वदिनो ग्रन्थिच्छिन्नः ४ ॥ 'कुहर' इति पञ्चधा । यथा - कुधरः पर्वताद्यनेकधा १ । कुगृहः कुत्सितगृहः २ । कुहरो दरी ३ । कुभरः पृथ्वीधरः ४ । कुखर ईषत्कर्कशरूपः विरूपगर्दभो वा ५ । षष्ठगाथापर्यायाः ॥ कइलास कव्वफलिहा वास अहोवाह पत्र सउणा य । कीलालायणसहिआ एए अ चउव्विहा हुंति ॥ 'कइलास' श्चतुर्धा । यथा- कैलाशो गिरिः १ । कविलासं कवीनां लसनं २ | कपिलाशः पिङ्गलाशो देशः ३ । कपिलासः कपीनां लसनं ४ ॥ 'काव्यं' कवेर्भावः कर्म वा १ । क्रव्यमामिषं २ | क[इ]व ब्रह्म यथा ३ | कव्यं पैत्रं कर्म ४। 'फलिह' श्चतुर्धा । यथा - स्फटिक ः १ । परिखा खातिका २ । परिघः ३ । फलिहो रत्नविशेषः ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy