SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ (८) 'व्यासो'ऽपि चतुर्धा। यथा-व्यासो मुनिः १ । वासो गृहं २। वासो वस्त्रं ३ । व्याशो नष्टदिक् ४॥ 'अहो'ऽपि चतुर्धा। यथा-अहो आश्चर्ये १। अहर्दिनं २। अथो आनन्तर्ये ३ । अधस्तलपर्यायः ४॥ 'वाहो'ऽपि चतुर्धा। यथा-वाहोऽश्वाद्यनेकार्थ १ । व्याधः २। बाष्पो अश्रुः ३ । बाधः पीडा ४॥ 'पनो'ऽपि चतुर्धा। यथा-पर्णं पत्रं १। पण्यं विक्रेयद्रव्यं २। पण्या वेश्या ३। प्रज्ञा बुद्धि ४॥ . 'सउणो'ऽपि चतुर्धा। यथा-सगुणो गुणयुक्त: १। शकुन: पक्षी २। सपुनःसपुरुषः ३। पुनः पुनः स तु न । न पुनर्भवतीत्यर्थः ४॥ 'कीलालाअण' इति चतुर्धा। यथा-क्रीडालागनो रतिविषयोत्पादयिता १। कीलालायनो मद्यमार्गो संधिरमार्गो वार। कीलालादनो राक्षस: ३। कीलालापणं मद्यकरहट्टं ४॥ इति सप्तमगाथापर्यायाः॥ सवणो चउप्पयारो विणय (विअण)त्ति मुहेण छव्विह वियप्यो । पंचविह सुत्तसद्दो तिहि भणिओ कईहिं वच्छे अ॥१०॥ 'सवणो' पि चतुर्धा। यथा-सव्रण: सक्षतः १। सवनं यज्ञाद्यनेकधा २ श्रवणं श्रोत्राद्यनेकार्थः ३। स्वप्नं निद्रा ४॥ 'विअणः' षोढा। यथा-व्यजनं तालवृन्तं १ । विजनं एकान्तः। विगणः पक्षवर्जः ३। द्विगुणः गुणद्वयं ४। वियणा वेदना ५। द्विजन: जनद्वययुक्तः॥ ६॥ 'सुत्त' इति पञ्चधा। यथा -सूत्रं तन्त्राद्यनेकार्थं १। सुप्तः २। सूक्तं ३। सुक्तं मद्यविशेषः ४। सूतं सुवापं क्षेत्रं ५॥ _ 'वच्छ' स्त्रिधा। यथा-वृक्षः १। वक्षः २। वत्सोऽपत्यं वा ज्योति:प्रसिद्धो वत्सस्तारः ३ ॥ कोसिअ-कणि कलिआ कुच्छेअय-कइपहू असप्पत्ता। चित्तयरो अहिअजुओ इक्विको चउविहो सद्दो॥ ११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy