SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ 'अमय' इति षोढा। यथा-अमृतं पीयूषं १। अमृगो मृगरहितो देशः २। अमतं अनभीष्टं ३। अमदो मदरहितः ४। अमृजोऽशुद्धः ५। अमयं हरिमयं ६। एवं षट् ।। __'अणह' इति चतुर्धा। यथा-अनखो नखहीनः १। अनघोऽपापः २। अनभोऽशून्यं ३। अनहो बन्धरहितः ४। एवं चत्वारः।। अट्ठविहो सज्जत्थो पंचविहो सायरत्ति सस्थित्ति। चउहा विज्ज त्ति पयं तह सज्झो होइ तब्भेओ॥ ६॥ 'सज्जो'ऽष्टधा। यथा-सों रालावृक्षः १। सज्जः प्रहः २। सज्यं समारोपितप्रत्यञ्चं धनुः ३। साज्यं सघृतं ४। सद्यस्तत्क्षणं ५। साद्य आदियुक्त ६। सार्य आर्ययुक्त: ७। षड्जः स्वरविशेषः ८॥ 'सायर' इति पञ्चधा। यथा-सादरः सगौरवः १। स्वादरः स्वादुदाता २। सागरोऽब्धिः ३। साकर आकरयुक्तो देशः ४। सातरः सुखदः ५॥ _ 'सत्थि' इति पञ्चधा। यथा-स्वस्तिराशीर्वचः १। शस्तिः शस्त्रागारं शुद्धं वा २ । सक्त्थिर्जानुः ३। शास्तिदण्डः ४। शास्तिः शाधिः ५॥ ___ 'विज्ज' इति चतुर्धा। यथा -वैद्यो भिषक् १। वीर्यं बलं २। वेद्यं ज्ञेयं ३। वीज्यं निर्वाप्यं ४। ... 'सज्झ' इति चतुर्धा। यथा-सह्यः पर्वतः सहनीयो वा १। साध्यं निष्पाद्यं २। सह्यः सप्रात: ३। साहाय्यं सहायित्वं ४॥ इति तुर्यगाथा पर्यायाः।। णायं अहयं सवहं अहिमयरं तह सहाए संजुत्तं । पंच वि पंच पयारा नायव्वा सत्थकुसलेहिं ।।७।। एते 'णाया' दि पञ्चापि पृथक् पृथक् पञ्चार्थाः। यथा-नाक: स्वर्ग: १। नागः सर्पाद्यनेकार्थः २। नादः शब्दः ३। न्यायो नीति: ४। ज्ञातमुदाहरणं अवगतं वा ५ ॥ "अहयं ' पञ्चधा। अहयोऽनश्वः १। अहतोऽप्रहतः २। अथ चेत्यानन्तर्यार्थमयं ३। अभयो निर्भयोऽपि ४। अभगोऽयोनिः ५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520505
Book TitleAnusandhan 1995 00 SrNo 05
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1995
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy