Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 277
________________ आगमोद्वारककृति सन्दोहे ॥२६७॥ तच्छेषतत्ववाक् । मोक्षः साध्यः साधने द्वे, उक्ते संवरनिजेरे ॥६१६॥ आश्रयो बन्धने हेतु, मोक्षादेः प्रतिबन्धिनी। 4 श्रमणधइति हेयतया प्रोक्ते, द्वे तत्त्वे ते मुनीशिना ॥ ६१७॥ त्रिभिर्विशेषकम् ॥ पुण्यपापे तु सामग्री-रूपे यजीवसन्ततौ। A मसहस्री बन्धे मोक्षे च हेतूनां, कारके भवतस्त्विमे ॥६१८॥ तपसो निर्जरा तत्तु, बलं संवरसाधितं । संवरस्य भवेत्सिद्धिश्रारित्रान्महतस्ततः ॥६१९॥ चारित्ररोधको मोह-स्तन्नाशाद्यो गुणो भवेत् । पुरतो. मोहनाशी च, चारित्रं स गुणो भवेत् ॥६२०॥ तन्नानुक्तं तपस्तत्र, न च संवरनिर्जरे। साध्यसाधनरूपाणि, सर्वाण्येतानि यन्मिथः ॥६२१॥ धर्मादिभिर्युते लोके, आकाशेऽग्रे स्थिता इमे। मुक्ताः केवलसम्यक्त्व-ज्ञानदर्शनशुद्धभाः ॥६२२॥ न तत्र पुण्यपापे स्तो, न च संवरनिर्जरे । न हि कार्यकरो वह्निः, सिद्धपाके जगत्यपि ॥६२३॥ क्षायिकाः स्वस्वरूपेण, गुणा दानादयोऽपि न । तत्र यत्पुद्गलापेक्षास्ते न सन्त्यत्र सार्थकाः ॥६२४॥ सातं वीर्य चेति युग्म, भवे पुद्गलसंश्रितम् । परं तत्रात्मरूपं तद्गुणावेतौ यदात्मनः ।। ६२५ ॥ पुद्गलोत्थं सुखं वीर्य, चेति द्वन्द्वं भवे मितं । साधकः कुरुते | कार्य, साधनापेक्ष आश्रितः ॥६२६॥ चक्षुषो लोकने शक्ति-स्तीवा तदपि काचसात् । जाता सा काचमानेन, सर्व वस्तु समीक्षते ॥६२७॥ क्षान्त्याद्याः कर्मणां पाकानिरुध्य नूतनागमं । कर्मणां निरुन्धन्त्येते, न ह्यण्वीमपि निर्जराम् ।। ६२८ ॥ तपश्चेन्न पुरा बद्ध-कर्मणां निर्जराकरम् । व्यर्थो धर्मो न मोक्षश्च, क्रमभोगेऽङ्गिनो भवेत् ॥६२९ ॥ जीवाः कर्मवशा यस्मा- | द्वेदयेयुश्च कर्म यत् । ततोऽधिकं निबध्नीयुः, कर्म कर्मवशंगताः॥६३० ॥ सम्यग्दृष्टयाद्यवस्थायाः, क्रममाश्रित्य निर्जरा। शास्त्रेऽसङ्ख्यगुणा प्रोक्ता, साऽऽश्रित्यैव बलं तपः ॥६३१ ॥ अभिमानो यथा ज्ञाने, दाने विघ्नस्तु कीर्तनम् । ईर्ष्या शीले ॥२६७॥

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302