Book Title: Agamoddharak Kruti Sandohe Part 01
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 279
________________ आगमां द्धारककृति सन्दोहे ॥२६९ ॥ याता, दुःखं चिन्तातिगं गताः । संगसक्ता, न निर्भिन्न-वक्षसस्तन्महाद्भुतम् ॥ ६५० ।। क्रोधो हान्याः स्मृतेर्मानो, न्यत्कारस्य स्मृतेर्भवेत् । लभ्यलाभस्मृतेमांया. सङ्गस्तु स्वस्वभावजः ||६५१ || बाल्ये ग्लान्ये जराभावे, मरणाग्रं गते नरे । शाम्येत् क्रोधो गलेन्मानो, नश्येन्माया न सक्तता ।। ६५२ ।। सर्व सुजेयं विदुषां भवव्याधिकरं परं । क्रोधाद्यं न तथा सङ्ग-श्छेद्यां यद् गुणयुग्मतः ।।६५३ || सर्वदोषकरो लोभः, सर्वानर्थप्रदायकः । प्रीत्यादिकाष्ठदावाग्निर्मूलं तस्य तु सक्तता ||६५४|| लोभान्नाशयति क्रोध, मानं मुञ्चति तत्क्षणात्। आविष्कुर्याच्छाठ्यसर्प, सङ्गः सर्वमुखो भवेत् ||६५५ | प्रथमा विकृतिः सङ्ग, आत्मनामपरे पुनः । रत्यरत्यादयो भावा - स्तत्तत्कर्मविपाकजाः ||६५६ ॥ सक्तः स्निह्यति रम्येषु, परथा द्वेषमाश्रयेत् । क्रुध्येन्माद्येत्प्रपश्चेद्वा, लुभ्येद्वा तद्नुक्रमात् ||६५७|| यस्मिन् स्यातां प्रेम रुट् च तत्र प्राक् सक्तता भवेत् । प्रेम्ण रोषे च लोभाद्याः प्रवर्तन्ते निरङकुशाः || ६५८ || क्षमा विनय ऋजुता, मुक्तिः सत्यं शुचिर्यमः । तपश्च न फलेन्मुक्त्यै, सङ्गसक्ते तु चेतने || ६५९ || जायेते रागविद्विषौ, सङ्गात् ताभ्यां क्रुधादयः । ततः कर्माणि कर्मभ्यो. भवस्तस्माद्वयथावलिः ।। ६६० ।। आवरणयुगे ज्ञानि - ज्ञानसाधनसङ्गताः । हेतवो ये प्रदोषाद्या- स्तेषां मूलं प्रसक्तता ॥ ६६१॥ नावर्णादिषु देवाद्येष्वसक्तो ना प्रवर्तते । कषाया अपि तीव्राः स्युः, सदा सक्तात्मनां पुनः || ६६२ || दानादिष्वन्तराऽऽगच्छेद्यः स्यात् पुद्गलसक्तिमान्। असक्ते विषये नैव, राग द्वेषोऽपि वर्तते ॥ ६६३|| हानोपादानमाध्यस्थ्य-फला जगति बुद्धयः । सत्स्वर्थेषु विचित्रोऽयं, सङ्ग आदौ प्रवर्तते ॥ ६६४ ॥ सङ्गेनात्मीकृतेष्वर्थेष्वीहा सच्चेतरात्मिका । प्राप्यामाप्यत्वप्रतिभा, ततो हानादिबुद्धयः ||६६५|| सङ्गेन स्वजते जीवो, वस्तुषु प्रतिबन्धितः । सदसत्सु ततः सर्व - प्रभुताधारणक्षमः RSS भ्रमणध सहस्त्री ॥२६९॥

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302