Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 463
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२६७ ४६० साहस्सिआहिं वेउव्विआहिं बाहिराहिं परिसाहिं महयाहयनदृगी अवाइअतंतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवेणं दिव्वाइं भोगभोगाई भुंजमाणा महया उक्तिट्ठिसीहणायबोलकलकलरवेणं अच्छं पव्वयरायं पयाहिणावत्तमण्डलचारं मेरुं अणुपरिअट्टंति । वृ. 'अंतो णं भंते' इत्यादि, अन्तर्मध्ये भदन्त ! मानुषोत्तरस्य मनुष्येभ्य उत्तरः- अग्रवर्ती एनवमधीकृत्य मनुष्यामामुत्पत्तिविपत्तिसिद्धिसम्पत्तिप्रभृतिभावात् अथवा मनुष्याणामुत्तरोविद्यादिशक्त्यभावेऽनुल्लंघनीयो मानुषोत्तरस्तस्य पर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपज्योतिष्काः ते भदन्त ! अत्रैकस्मिन्नेव प्रश्ने यमदन्तेति भगवत्सम्बोधनं पुनश्चक्रे तत्पृच्छकस्य भगवन्नामोच्चारेऽतिप्रीतिमत्वात् देवाः किमूर्ध्वोपपन्नाः - सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्ध्वं ग्रैवेयकानुत्तरविमानेषूपपत्राः - उत्पन्नाः - कल्पातीता इत्यर्थः कल्पोपपन्नाः - सौधर्मादिदेवलोकोत्पन्नाः विमानेषु - ज्योतिसम्बन्धिषु उपपन्नाः चारो - मण्डलगत्या परिभ्रमणं तमुपपन्नाआश्रितवन्तः उत चारस्य यथोक्तस्वरूपस्य स्थितिः - अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गती रति- आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, अनेन गतौ रतिमात्रमुक्तं । सम्प्रति साक्षाद् गतिं प्रश्नयति - गतिसमापन्ना - गतियुक्ताः ?, भगवानाह - गौतम ! अन्तर्मानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहणनक्षत्रतारारूपज्योतिष्कास्ते देवा नोर्ध्वोपपन्नाः नो कल्पोपन्नाः विमानोपपन्नाः चारोपपन्नाः नो चारस्थितिकाः अत एव गतिरतिकाः गतिसमायुक्ताः, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थितैरिति प्राग्वत्, योजनसाहस्रिकैः - अनेकयोजनसहसप्रमाणैस्तापक्षेत्रैः, अत्रेत्थंभावे तृतीया, तेनेत्यंभूतैस्तैर्मेरुं परिवर्त्तन्त इति क्रियायोगः, कोऽर्थः उक्तस्वरूपाणि तापक्षेत्राणि कुर्वन्ति जंबूद्वीपगतं मेरु परितो भ्रमन्ति, तापक्षेत्रविशेषणं चन्द्रसूर्याणामेव, नतु नक्षत्रादीनां यथासम्भवं विशेषणानां नियोज्यत्वात्, अथैतान् साधारण्येन विशेषयन्नाह साहनकाभिः, नाट्यगानवादनादिकर्मप्रवणत्वात्, न तु तृतीयपर्षद्रूपाभि, पर्षद्मदेवसमूहरूपाभि कर्तृभूताभिः, बहुवचनं चात्र नाट्यादिगणापेक्षया, महता प्रकारेणाहतानि - भृशं ताडितानि नाटये गीते वादित्रे च-वादनरूपे त्रिविधेऽपि सङ्गीते इत्यर्थः, तन्त्रीतलतालरूपत्रुटितानि शेषं प्राग्वत् । तथा स्वभावतो गतिरतिकैः - बाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषूत्कृष्टो यः सिंहनादो मुच्यते यी च बोलकलकलौ क्रियेते, तत्र बोलो नाम मुखे हस्तं दत्वा महता शब्देन पूत्करणं, कलकलश्च व्याकुलशब्दसमूहस्तद्रवेण महता २ समुद्ररवभूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टमित्याह-अच्छं- अतीवनिर्मलं जाम्बूनदमयत्वात् रत्नबहुलत्वाच्च पर्वतराजं-पर्वतेन्द्रं 'प्रदक्षिणावर्त्तमण्डलचार' मिति प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्त्तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिणः आवर्त्तो येषां मण्डलानां तानि तथा तेषु यथा चारो भवति तथा क्रियाविशेषण तेन प्रदक्षिणावर्त्तमण्डलं चारं यथा स्यात्तथा मेरुं परिवर्त्तन्ते इति योज्यं, अयमर्थः - चन्द्रादयः सर्वेऽपि समयक्षेत्रवर्त्तिनो मेरुं परितः प्रदक्षिणावर्त्तमंडलचारेण भ्रमन्तीति । अथ पञ्चदशमं द्वारमाह मू. (२६८) तेसि णं भंते! देवाणं जाहे इंदे चुए भवइ से कहमियाणि पकरेति ?, गो० ! ताहे चत्तारि पंच वा सामानिआ देवा तं ठाणं उवसंपज्जित्ता णं विहरति जाव तत्थ अन्ने इंदे उव Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564