Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 524
________________ चक्षस्कारः -७ सूरविमाणे अट्ठहिं सएहिं चन्द' ० एवमुक्तन्यायेन यथा समभूमिभागादधस्तनं ज्योतिश्चक्रं नवत्यधिकसप्त- योजनशतैस्तथा समभूमिभागादेव सूर्यविमानमष्टभिर्योजनशतैश्चन्द्रविमानमशीत्यधिकैरष्टभिर्योजनशतैः उपरितनं तारारूपं नवभिर्योजनशतैश्चारं चरति । अथ ज्योतिश्चक्रचारक्षेत्रापेक्षया अबाधाप्रश्नमाह - 'जोइसस्स ण' मित्यादि, ज्योतिश्चक्रस्य दशोत्तरयोजनशतबाहल्यस्याधस्तनात् तलात् कियत्या अबाधया सूर्यविमानं चारं चरति ?, गौतम! दशभिर्योजनैरित्येवंरूपया अबाधया सूर्यविमानं चारं चरति, अत्र च सूत्रे समभूभागादूर्ध्वं नवत्यधिकसप्तयोजनातिक्रमेण ज्योतिश्चक्रबाहल्यमूलभूत आकाशप्रदेशप्रतरः सोऽवधिर्मन्तव्यः, एवं चन्द्रादिसूत्रेऽपि, एवं चन्द्रविमानं नवत्या योजनैरित्येवंरूपया अबाधया चारं चरति, तथोपरितनं तारारूपं दशाधिके योजनशते ज्योतिश्चक्रबाहल्यप्रान्ते इत्यर्थ चारं चरति । अथ गतार्थमपि शिष्यव्युत्पादनाय सूर्यादीनां परस्परमन्तरं सूत्रकृदाह - सूर्यविमानात् चन्द्रविमानं अशीत्या योजनैश्चारं चरति, सूर्यविमानात् योजनशतेऽतिक्रान्ते उपरितनं तारापटलं चारं चरति, चन्द्पविम्ानात् विंशत्या योजनैरुपरितनं तारापटलं चारं चरति, अत्र सूचामात्रत्वात् सूत्रेऽनुक्तापि ग्रहाणां नक्षत्राणां च त्रेत्रविभागव्यवस्था मतान्तराश्रिता संग्रहणिवृत्यादौ दर्शिता लिख्यते'शतानि सप्त गत्वोर्ध्वं योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ।। तारकापटलाद् गत्वा, योजनानि दशोपरि । सूराणां पटलं तस्मादशीतिं शीतरोचिषाम् ।। चत्वारि तु ततो गत्वा, नक्षत्र पटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधाना पटलं भवेत् ॥ शुक्राणां च गुरूणां च, भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोर्ध्व, क्रमेण पटलं स्थितम् ॥' इति ॥ अथ षष्ठं द्वारं पृच्छन्नाह || 9 || ॥२॥ ॥३॥ ॥ ४ ॥ ५२१ मू. (३४०) जंबुद्दीवे णं दीवे अट्ठावीसाए नक्खत्ताणं कयरे नक्खते सव्वब्धंतरिल्लेणं चारं चरइ ?, कयरे नक्खत्ते सव्वबाहिरं चारं चरइ ?, कयेर सव्वहिट्ठिल्लं चारं चरइ, कयरे सव्वउवरिल्लं चारं चरइ ?, गो० ! अभिई नक्खत्ते सव्वअंतरं चारं चरइ, मूलो सव्वबाहिरं चारं चरइ, भरणी सव्वहिद्विल्लगं साई सब्बुवरिल्लगं चारं चरइ । चंदविमाणे णं भंते! किंसंठिए पन्नत्ते ?, गो० ! अद्धकविट्ठसंठाणसंठिए सव्वफालिआमए अब्भुग्गयमुसिए एवं सव्वाइं ने अव्वाई, चंदविमाणे णं भंते! केवइयं आयामविक्खंभेणं केवइयं बाहल्लेणं ?, गो० ! वृ. जम्बूद्वीपे भदन्त ! द्वीपेऽष्टाविंशतेर्नक्षत्राणां मध्ये कतरन्नक्षत्रं सर्वाभ्यन्तरं सर्वेभ्यो मण्डलेभ्योऽभ्यन्तरः सर्वाभ्यन्तरः तं, अनेन द्वितायदिमण्डलचारव्युदासः, चारं चरति ?, तथा कतरनक्षत्रं सर्वबाह्यं सर्वतो नक्षत्रमण्डलिकाया बहिश्चारं चरति-भ्रमति, तथा कतरन्नक्षत्रं सर्वेभ्योऽधस्तनं चारं चरति, तथा कतरन्नक्षत्रं सर्वेषां नक्षत्राणामुपरितनं चारं चरति, सर्वेभ्यो नक्षत्रेभ्य उपरिचारीत्यर्थः, भगवानाह - गौतम ! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, यद्यपि सर्वाभ्यन्तरमण्डलचारीण्यभिजिदादिद्वादशनक्षत्राण्यभिहितानि तथापीदं शेषैकादशनक्षत्रापेक्षया www.jainelibrary.org Jain Education International For Private & Personal Use Only

Loading...

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564