________________
चक्षस्कारः -७
सूरविमाणे अट्ठहिं सएहिं चन्द' ० एवमुक्तन्यायेन यथा समभूमिभागादधस्तनं ज्योतिश्चक्रं नवत्यधिकसप्त- योजनशतैस्तथा समभूमिभागादेव सूर्यविमानमष्टभिर्योजनशतैश्चन्द्रविमानमशीत्यधिकैरष्टभिर्योजनशतैः उपरितनं तारारूपं नवभिर्योजनशतैश्चारं चरति ।
अथ ज्योतिश्चक्रचारक्षेत्रापेक्षया अबाधाप्रश्नमाह - 'जोइसस्स ण' मित्यादि, ज्योतिश्चक्रस्य दशोत्तरयोजनशतबाहल्यस्याधस्तनात् तलात् कियत्या अबाधया सूर्यविमानं चारं चरति ?, गौतम! दशभिर्योजनैरित्येवंरूपया अबाधया सूर्यविमानं चारं चरति, अत्र च सूत्रे समभूभागादूर्ध्वं नवत्यधिकसप्तयोजनातिक्रमेण ज्योतिश्चक्रबाहल्यमूलभूत आकाशप्रदेशप्रतरः सोऽवधिर्मन्तव्यः, एवं चन्द्रादिसूत्रेऽपि, एवं चन्द्रविमानं नवत्या योजनैरित्येवंरूपया अबाधया चारं चरति, तथोपरितनं तारारूपं दशाधिके योजनशते ज्योतिश्चक्रबाहल्यप्रान्ते इत्यर्थ चारं चरति । अथ गतार्थमपि शिष्यव्युत्पादनाय सूर्यादीनां परस्परमन्तरं सूत्रकृदाह - सूर्यविमानात् चन्द्रविमानं अशीत्या योजनैश्चारं चरति, सूर्यविमानात् योजनशतेऽतिक्रान्ते उपरितनं तारापटलं चारं चरति, चन्द्पविम्ानात् विंशत्या योजनैरुपरितनं तारापटलं चारं चरति, अत्र सूचामात्रत्वात् सूत्रेऽनुक्तापि ग्रहाणां नक्षत्राणां च त्रेत्रविभागव्यवस्था मतान्तराश्रिता संग्रहणिवृत्यादौ दर्शिता लिख्यते'शतानि सप्त गत्वोर्ध्वं योजनानां भुवस्तलात् । नवतिं च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ।। तारकापटलाद् गत्वा, योजनानि दशोपरि । सूराणां पटलं तस्मादशीतिं शीतरोचिषाम् ।। चत्वारि तु ततो गत्वा, नक्षत्र पटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधाना पटलं भवेत् ॥ शुक्राणां च गुरूणां च, भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोर्ध्व, क्रमेण पटलं स्थितम् ॥' इति ॥ अथ षष्ठं द्वारं पृच्छन्नाह
|| 9 ||
॥२॥
॥३॥
॥ ४ ॥
५२१
मू. (३४०) जंबुद्दीवे णं दीवे अट्ठावीसाए नक्खत्ताणं कयरे नक्खते सव्वब्धंतरिल्लेणं चारं चरइ ?, कयरे नक्खत्ते सव्वबाहिरं चारं चरइ ?, कयेर सव्वहिट्ठिल्लं चारं चरइ, कयरे सव्वउवरिल्लं चारं चरइ ?, गो० ! अभिई नक्खत्ते सव्वअंतरं चारं चरइ, मूलो सव्वबाहिरं चारं चरइ, भरणी सव्वहिद्विल्लगं साई सब्बुवरिल्लगं चारं चरइ । चंदविमाणे णं भंते! किंसंठिए पन्नत्ते ?, गो० ! अद्धकविट्ठसंठाणसंठिए सव्वफालिआमए अब्भुग्गयमुसिए एवं सव्वाइं ने अव्वाई, चंदविमाणे णं भंते! केवइयं आयामविक्खंभेणं केवइयं बाहल्लेणं ?, गो० !
वृ. जम्बूद्वीपे भदन्त ! द्वीपेऽष्टाविंशतेर्नक्षत्राणां मध्ये कतरन्नक्षत्रं सर्वाभ्यन्तरं सर्वेभ्यो मण्डलेभ्योऽभ्यन्तरः सर्वाभ्यन्तरः तं, अनेन द्वितायदिमण्डलचारव्युदासः, चारं चरति ?, तथा कतरनक्षत्रं सर्वबाह्यं सर्वतो नक्षत्रमण्डलिकाया बहिश्चारं चरति-भ्रमति, तथा कतरन्नक्षत्रं सर्वेभ्योऽधस्तनं चारं चरति, तथा कतरन्नक्षत्रं सर्वेषां नक्षत्राणामुपरितनं चारं चरति, सर्वेभ्यो नक्षत्रेभ्य उपरिचारीत्यर्थः, भगवानाह - गौतम ! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, यद्यपि सर्वाभ्यन्तरमण्डलचारीण्यभिजिदादिद्वादशनक्षत्राण्यभिहितानि तथापीदं शेषैकादशनक्षत्रापेक्षया
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only