SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ५२० जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३३८ परिवारो केवइया तारागणकोडाकोडीओपन्नताओ?, गो-अट्ठासीइ महणहा परिवारोअट्ठावीसं नक्खत्ता परिवारो छावडिसहस्साइं नव सया पन्नत्तरा तारागणकोडाकोडीजो पन्नत्ता। वृ. अथ द्वितीयं द्वारंप्रश्नयति-'एगमेगस्सणं भंते !'इत्यादि, एकैकस्य भदन्त चन्द्रस्य कियन्तो महाग्रहाः परिवार तथा कियन्तिनक्षत्राणिपरिवारः तथा कियत्यस्तारागण-कोटाकोट्यः परिवारभूताः प्रज्ञप्ताः?, भगवानाह-गौतम! अष्टाशीतिर्महाग्रहाः परिवारोऽ-ष्टाविंशतिर्नक्षत्राणि परिवारः षट्षष्टिसहस्रणिनवशतानि पञ्चसप्तत्यधिकानितारागणकोटाकोटीनां परिवारभूतानि प्रज्ञप्तानि, यद्यप्यत्र एते चन्द्रस्यैव परिवारतयोक्तस्तथापि सूर्यस्यापीन्द्रत्वादेते एवं परिवातयाऽवगन्तव्याः, समवायाझे जीवाभिगमसूत्रवृत्यादौ तथा दर्शनात्। मू. (३३१) मंदरस्सणं भंते! पव्वयस्स केवइआए अबाहाए जोइसंचारं चरइ ?, गो० इक्कारसहिं इक्कवीसेहिं जोअणसएहिं अबाहाएजोइसंचारंचरइ, लोगंताओणंभंते! केवइआए अबाहाए जोइसे पन्नते?, गो० एकारस एक्कारसेहिं जोअणसएहिं अबाहाए जोइसे पन्नते। धरणितलाओ णं भंते !, सत्तहिं नउएहिं जोअणसएहिं जोइसे चारं चरइत्ति, एवं सूरविमाणे अद्विहि सएहि, चंदविमाणे अट्टिहिं असीएहिं, उवरिले तारासवे नवहिजोअणसएहिं चारंचरइ ___जोइसस्स णं भंते! हेछिल्लाओ तलाओ केवइआए अबाहाए सूरविमाणे चारं चाइ?, गो० दसहिंजोअणेहिं आबाहाए चारं चरइ, एवं चंदविमाणे नउईएजोअणेहिं चारंचरइ, उवरिल्ले तारारुवे दसुत्तरे जोअणसए चारं चरइ, चंदविमाणाओवीसाए जोअणेहिं उवरिल्ले णं तारास्ववे चारं चरइ। वृ. अथ तृतीयं द्वारं पृच्छति-'मंदरस्सणं भंते!' इत्यादि, मन्दरस्य भदन्त ! पर्वतस्य कियत्याऽधया-अपान्तरालेनज्योतिश्चक्रंचारंचरति?, भगवानाह-गौतम! जगतस्वभावात् एकादशभिरेकविंशत्यधिकैर्योजनशतैरित्येवंरूपयाऽबाधया ज्योतिषं चारं चरति, किमुक्तं भवति ? -मेरुतश्चक्रवालेनैकविंशत्यधिकान्येकादशयोजनशतदानि मुक्त्वा चलं ज्योतिश्चक्रं तारारूपं चारं चरति, प्रक्रमाजम्बूद्वीपगतमवसेयं, अन्यथा लवणसमुद्रादिज्योतिश्चक्रस्य मेरुतो दूरवर्तित्वेन उक्तप्रमाणासम्भवः, पूर्वं तु सूर्यचन्द्रवक्तव्यताधिकारे अबाधाद्वारे सूर्यचन्द्रयोरेव मेरुतोऽबाधा उक्ता साम्प्रतं तारापटलस्यैतिन पूर्वापरविरोध इति । ___अथ स्थिरंज्योतिश्चक्रमलोकतः कियत्याअबाधयाअर्वाअवतिष्ठतइतिपिपृच्छिषुश्चतुर्थं द्वारमाह-'लोगन्ताओ णमित्यादि, लोकान्ततो अलोकादितोऽर्वाक्कियत्याअबाधया प्रक्रमात् स्थिरं ज्योतिश्चक्रं प्रज्ञप्तं ?, भगवानाह-गौतम ! जगत्स्वभावात् एकादशभिरेकादशाधिकैर्योजनशतैरबाधयाज्योतिषप्रज्ञप्तं, प्रक्रमात् स्थिरंबोध्यम्, चरज्योतिश्चक्रस्य तत्राभावादिति अथपञ्चमंद्वारंपृच्छति-'घरणितलाओणंभंते ! इत्यनेन तत्सूत्रैकदेशेन परिपूर्ण प्रश्नसूत्रं बोध्यं, तच्च 'धरणित. ! उद्धं उप्पइत्ता केवइआए अबाहाए हिडिल्ले जोइसे चारंचरइ?, गो०!' इत्यन्तं, वस्त्वेकदेशस्यवस्तुस्कन्धस्मारकत्वनियमात्, तत्रायमर्थः-धरणितलात्-समयप्रसिद्धात् समभूतलभूभागादूर्ध्वमुत्पत्य कियत्याऽबाधया अधस्तनं ज्योतिषं तारापटलं चारं चरति ?, भगवानाह-गौतम ! सप्तभिर्नवतैः-नवत्यधिकैर्योयनशतैरित्येवंरूपया अबाधया अधस्तनं ज्योतिश्चक्रं चारं चरति । अथ सूर्यादिविषयमबाधास्वरूपं संक्षिप्य भगवान् स्वयमेवाह-एवं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy