________________
वक्षस्कारः -७
५१९
कियन्तो वहन्तीति वक्तव्यं ९ एषां मध्ये के शीघ्रगतयः के मन्दगतय इति वक्तव्यं १०, एषां मध्ये केऽल्पर्द्धयो महर्द्धयश्चेति वक्तव्यं ११ ताराणां परस्परमन्तरं वक्तव्यं १२ अग्रमहिष्यो वक्तव्याः १३, तुटिकेन - अभ्यन्तरपर्षत्सत्कस्त्रीजनेन सह प्रभुः - भोगं कर्तुं समर्थश्चन्द्रादिर्नवा इति वक्तव्यं १४ स्थितिरायुषो वक्तव्या १५ ज्योतिष्काणामल्पबहुत्वं वक्तव्यं १ ६ इति ।
मू. (३३६) अत्थि णं भंते! चंदिमसूरिआणं हिट्ठिपि तारारूवा अणुपि तुल्लावि समेवि तारारूवा अणुपि तुल्लावि उम्पिंपि तारारूवा अणुपि तुल्लावि ?, हंता ! गो० ! तं चैव उच्चारे अव्वं वृ. अथ प्रथमं द्वारं पिपृच्छिषुराह - 'अत्थि ण'मित्यादि, अस्त्येतद् भगवन् ! चन्द्रसूर्याणां देवानां 'हिट्ठिपि त्ति क्षेत्रापेक्षया अधस्तना अपि तारारूपः तारा विमानाधिष्ठातारो देवा द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि हीना अपि भवन्ति केचितुल्या अपि सध्शा अपि भवन्ति, अधिकत्वं तु स्वस्वेन्द्रेभ्यः परिवारदेवानां न सम्भवतीति न पृष्टं, तथा समेऽपीति चन्द्रादिविमानैः क्षेत्रापेक्षया समाः- समश्रेणिस्थिता अपि तारारूपाः- ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचितुल्या अपि भवन्ति
तथा चन्द्रादिविमानानां क्षेत्रापेक्षया उपरि-- उपरिस्थितास्तारारूपाः - ताराविमानाधिष्ठातारो देवास्तेऽपिचन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचितुल्या अपि भवन्ति, अत्र काकुपाठात् प्रश्नावगमः, एवं गौतमेन पृष्टे भगवानाह - गौतम ! हन्तेति यदेव पृष्टं तत्सर्वं तथैवास्ति अतस्तदेवोच्चारणीयं ।
मू (३३७) से केणट्टेणं भंते! एवंवुबइ - अत्थि णं० जहा णंतेसिं देवाणं तवनियमबंभचेराणि ऊसिआई भवसि तदा तहा णं तेसि णं देवाणं एवं पण्णायए तंजहा- अणुत्ते वा तुल्लत्ते, वा, जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि नो ऊसिआई भवंति तहा तहा णं तेसिं देवाणं एवं (नो) पण्णायए, तं० अणुत्ते वा तुल्लत्ते वा ।
वृ. अत्रार्थे हेतुप्रश्नायाह- अथ केनार्थेन भगवन्नेवमुच्यते- 'अत्थि ण' मित्यादिना तदेव सूत्रमनुस्मरणीयं, अत्रोतरमाह-यथा यथा तेषां - तारारूपविमानाधिष्ठातृणां देवानां प्राग्भवे तपोनियमब्रह्मचर्याण्युच्छ्रितानि - उत्कटानि भवन्ति, तत्र तपः - अनशनादि द्वादशविधं नियमःशौचादि ब्रह्मचयं - मैथुनविरति, अत्र च शेषव्रतानामनुपदर्शनमुत्कटव्रतधारिणा ज्योतिष्केषु उत्पादासम्भवात्, उच्छ्रितानीत्युपलक्षणं तेन यथा यथा अनुच्छ्रितानीत्यपि बोध्यं, अन्यथोत्तरसूत्रे वक्ष्यमाणमणुत्वं नोपपद्येत, यच्छब्दगर्भितवाक्यस्य तच्छब्दगर्भितवाक्यसापेक्षत्वदुत्तरवाक्यमाह - तथा तथा तेषां देवानामेवं प्रज्ञायते ज्ञायते इति, तद्यथा - अणुत्वं वा तुल्यत्वं वा, न चैतदनुचि, ६श्यते हि मनुष्यलोकेऽपि केचिज्जन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ता अपि राज्ञा सह तुल्यविभवा इति, अत्र व्यतिरेकमाह-यथा यथा तेषां देवानां ताराविमानाधिष्ठातॄणां प्राग्भवार्जितान्युच्छ्रितानि तपोनियमब्रह्मचर्याणि न भवेयुस्तथा तथा तेषां देवानां नो एवं प्रज्ञायते - अणुत्वं वा तुल्यत्वं वा, अभियोगिककर्मोदयेनातिनिकृष्टत्वात्, अयमर्थः - अकामनिरादियोगाद्देवत्व प्राप्तावपि देवर्सेरलाभेन चन्द्रसूर्येभ्यो द्युतिविभवाद्यपेक्षयाऽणुएकैकस्य भदन्त चन्द्रस्य कियन्तो तेषां तैस्सह तुल्यत्वमिति ।
मू. (३३८) एगमेगस्स णं भंते ! चंदस्स केवइआ महग्गहा परिवारो केवइआ नक्खत्ता
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International