________________
५१८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३३३
तत एकं पदं सप्तांगुलानित्रयोयवा एकस्य चयवस्य एकोनविंशति-रेकत्रिंशदभागा इति पदचतुष्टयात् पात्यते, शेषं तिष्ठति द्वे पदे चत्वार्यगुलानि चत्वारो यवाः एकस्य च यवसय द्वादश एकत्रिंशद्भागाः, एतावतीयुगे आदितआरभ्य सप्तनवतितमेपर्वणिपञ्चभ्यां तिथौ पौरुषीति, एवं सर्वत्रं भावनीयं।
सम्प्रति पौरुषीपरिमाणतोऽयनगतपिरमाणज्ञापनार्थमियं करणगाथा-'वुड्डी वे'त्यादि, पौरुष्यायावती वृद्धिनिर्वाष्टा ततः सकाशादिवसगतेन प्रवर्तमानेन च त्रैराशिककरणानुसारेण यल्लब्धं तत् अयनगतं-अयनस्य तावप्रमाणं गतं वेदितव्यं, एष करणगाथाक्षरार्थः, भावना त्वियम्-तत्र दक्षिणायनेपदद्वयस्योपरिचत्वारि अकुलानिवृद्धी दृष्टानि, ततः कोऽपिपृच्छति-किं गतंदक्षिणायनस्य?,अत्रत्रैराशिककर्मावतारो-यदिचतुर्मिरकुलस्य एकत्रिंशद्भागैरेका तिथिलभ्यते ततश्चतुर्भिरंगुलैः कति तिथीर्लभामहे ?, अत्रान्त्यो राशिरंगुलरूप एकत्रिंशद्भागकरणार्थमेकत्रिंशतागुण्यतेजातंचतुर्विंशत्यधिकंशतंतेनमध्योराशिगुण्यतेजातंतदेव चतुर्विंशत्यधिक शतं तस्य चतुष्करूपेणादिराशिना भागो ह्रियते लब्धा एकत्रिंशत्तिथयः, आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरंगुला पौरुष्यां वृद्धिरिति।।
तथा उत्तरायणेपदचतुष्टयाङ्गुलाष्टकहीनं पौरुष्यामुपलभ्य कोऽपिपृच्छति-किंगतमुत्तरायणस्य?,अत्रापि त्रैराशिकं-यदिचतुर्भिरंगुलस्य एकत्रिंशद्भागैरेका तिथिर्लभ्यतेततोऽष्टभिरंगुलैीनैः कति तिथयो लभ्यन्ते?, अत्रान्त्यो राशिरेकत्रिंशद्भाग- करणार्थमेकत्रिंशता गुण्यते जाते द्वेशते अष्टचत्वारिंशदधिके ताभ्यांमध्यो राशिरेककरूपो गुण्यते जाते एव द्वे शते अष्टचत्वारिंशदधिके तयोराद्येन राशिनाचतुष्करूपेण भागहरणंलब्धा द्वाषष्टिः, आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावंगुलानि पौरुष्या हीनानीति । अथोपसंहारवाक्यमाह- एतेषामनन्तरोक्तानां पूर्ववर्णितानां पदानामियं-वक्ष्यमाणा संग्रहणीगाथा।
तद्यथा-'जोगोदेवय तारग्ग' इत्यादि, प्राग्व्याख्यातस्वरूपा, अस्यानिगमनाथूपुनरुपन्यासस्तेन न पुनरुक्तिविनीयेति, चत्तु पूर्वमुद्देशसमये सन्निपातद्वारं सूत्रे साक्षादुपात्तं सम्प्रति च छायाद्वारंतद्विचित्रत्वात्सूत्रकाराणांप्रवृत्तेः, पूर्णिमामावास्याद्वारेसन्निपातद्वारमन्त वितंछायाद्वार च नेतृद्वारानुयोग्यपि भिन्नस्वरूपतया पृथक्त्वेन विवक्षितमिति ध्येयम् ।
अथास्मिन्नेवाधिकारे षोडशभिद्वाररर्थान्तरप्रतिपादनाय गाथाद्वयमाहमू. (३३४) हिटिं ससिपरिवारो मंदरऽबाधा तहेव लोगते।
धरणितलाओ अबाधा बाहिं च उद्धमुहे ॥ वृ. अधः चन्द्रसूर्ययोस्तारामण्डलं उपलक्षणात् समपंक्तौ उपरि च अणुं समं वेत्यादि वक्तव्यं १, शशिपरिवारो वक्तव्यः २ ज्योतिश्चक्रस्य मन्दरतोऽबाधा वक्तव्या३ तथैव लोकान्तज्योतिश्चक्रयोरबाधा४ धरणितलात्ज्योतिश्चक्रस्याबाधा ५ किञ्च-नक्षत्रमन्तः-चारक्षेत्रस्याभ्यन्तरे किं बहि किं चोर्ध्वं किञ्चाधश्चरतीति वक्तव्यं ६। मू. (३३५) संठाणंच पमाणं वहति सीहगई इद्धिमंता य ।
तारंतरऽग्गमहिसी तुडिअ पहु ठिई अ अप्पबहू ।। वृ.ज्योतिष्कविमानानां संस्थानंवक्तव्यं एषामेवप्रमाणवक्तव्यं ८चन्द्रादीनांविमानानि Jain Education International
For Private & Personal Use Only
www.jainelibrary.org