Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 510
________________ वक्षस्कारः -७ सर्वष्वपि च शोधनकेषु उपरि अभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्तस्य द्वाषष्टिभागाश्तुर्विंशति षष्टिश्च चूर्णिकाभागा एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः शोधीयाः । 1199 || 'एआई सोहइत्ता जं सेसं तं हवइ नक्खत्तं । इत्थं करे उडुवइ सूरेण समं अमावासं ।' एतानि - अनन्तरोदितानि शोधनकानि यथायोगं शोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्रं, एतस्मिंश्च नक्षत्रे करोति सूर्येण समं उडुपतिरमावास्यामिति करणगाथासमूहाक्षरार्थः, भावना त्वियं- केनापि पृच्छयते - यगस्यादी प्रथमा अमावास्या केन नक्षत्रेणोपेता समाप्तिमुपैतीति तत्र पूर्वोदितस्वरूपोऽवधार्यराशि षट्षष्टिर्मुहूर्त्ताः पञ्च द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमायाः अमावास्यायाः पृष्ठत्वात्, 'एकेन गुणितं तदेव भवती 'ति जातस्तावानेव राशि, ततस्तस्माद् द्वाविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागा इत्येवंरूपं पुनर्वसु शोध्यते, तत्र षट्षष्टिमुहूर्तेभ्यो द्वाविंशतिर्मुहूर्त्ताः शुद्धाः स्थिताः पश्चात् चतुश्चत्वारिंशत् ४४, तेभ्य एकं मुहूर्तमपकृष्य स्य द्वाषष्टिभागाः क्रियन्ते कृत्वा च ते द्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते जाताः सप्तषष्टि तेभ्यः षट्चत्वारिंशच्छुद्धाः शेषास्तिष्ठन्त्येकविंशति, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रशता मुहूर्तेः पुष्यः शुद्धः, पश्चात् त्रयोदश मुहूर्त्ताः, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्तप्रमाणं, तत इदमागतं - अश्लेषा नक्षत्रस्यैकस्मिन् मुहूर्ते एकस्य च मुहूर्त्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाच्छिन्नस्य षट्षष्टिभागेषु शेषेषु प्रथमामावास्यासमाप्तिमुपगच्छतीति, एवं सर्वास्वप्यमावास्यासु करणं भावनीयम् । अत्र पूर्णिमाप्रक्रमे यदमावास्याकरणमुक्तं तत्करणगाथानुरोधेन युगादावमावस्यायाः प्राथम्येन क्रमप्राप्तत्वेन च । अथ प्रस्तुतं पूर्णिमाकरणं । ॥१॥ 'इच्छापुण्णिमगुणिओ अवहारो सोऽत्य होइ कायव्वो । तं चैव य सोहणगं अभिईआई तु कायव्वं ॥" सुद्धमि अ सोहणगे जं सेसं तं हवेज्ज नक्खत्तं ! तत्थ य करेइ उड्डुवइ पडिपुण्णं पुण्णमं विमलं ॥ यथा पूर्वममावास्याचन्द्रनक्षेत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि पौर्णमासीचन्द्रानक्षेत्रपरिज्ञानविधौ ईप्सितपूर्णिमासीगुणितः-यां पूर्णमासीं ज्ञातुमिच्छसि तत्सङ्ख्यया गुणितः कर्त्तव्यः, गुणिते च सति तदेव - पूर्वोक्तं शोधनकं कर्तव्यं, केवलमभिजिदादिकंन तु पुनर्वसुप्रभृतिकं, शुद्धे च शोधनके यच्छेषमवतिष्ठते तद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे करोति उडुपति - चन्द्रमाः परिपूर्णा पूर्णमासीं विमलामिति करणगाथाद्वयाक्षरार्थः, भावना त्वियं-कोऽपि पृच्छति - युगस्यादी प्रथमा पौर्णमासी कस्मिन् चन्द्रनक्षत्रयोगे समाप्तिमुपगच्छतीति, तत्र षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्यैकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिर्धयते, स प्रथमायां पौर्णमास्यां किल पृष्टमित्येकेन गुण्यते, ततस्तस्माद - भिजितो नव मुहूर्ता एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षटषष्टिसप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोधनीयम्, तत्र च षटषर्नव मुहूर्त्ताः शुधाः स्थिताः पश्चात् सप्तपञ्चाशत् तेभ्यः एको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतः ते च For Private & Personal Use Only ॥२॥ ५०७ Jain Education International www.jainelibrary.org M

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564