________________
वक्षस्कारः -७
सर्वष्वपि च शोधनकेषु उपरि अभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्तस्य द्वाषष्टिभागाश्तुर्विंशति षष्टिश्च चूर्णिकाभागा एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः शोधीयाः । 1199 || 'एआई सोहइत्ता जं सेसं तं हवइ नक्खत्तं । इत्थं करे उडुवइ सूरेण समं अमावासं ।'
एतानि - अनन्तरोदितानि शोधनकानि यथायोगं शोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्रं, एतस्मिंश्च नक्षत्रे करोति सूर्येण समं उडुपतिरमावास्यामिति करणगाथासमूहाक्षरार्थः, भावना त्वियं- केनापि पृच्छयते - यगस्यादी प्रथमा अमावास्या केन नक्षत्रेणोपेता समाप्तिमुपैतीति तत्र पूर्वोदितस्वरूपोऽवधार्यराशि षट्षष्टिर्मुहूर्त्ताः पञ्च द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमायाः अमावास्यायाः पृष्ठत्वात्, 'एकेन गुणितं तदेव भवती 'ति जातस्तावानेव राशि, ततस्तस्माद् द्वाविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागा इत्येवंरूपं पुनर्वसु शोध्यते, तत्र षट्षष्टिमुहूर्तेभ्यो द्वाविंशतिर्मुहूर्त्ताः शुद्धाः स्थिताः पश्चात् चतुश्चत्वारिंशत् ४४, तेभ्य एकं मुहूर्तमपकृष्य स्य द्वाषष्टिभागाः क्रियन्ते कृत्वा च ते द्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते जाताः सप्तषष्टि तेभ्यः षट्चत्वारिंशच्छुद्धाः शेषास्तिष्ठन्त्येकविंशति, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रशता मुहूर्तेः पुष्यः शुद्धः, पश्चात् त्रयोदश मुहूर्त्ताः, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्तप्रमाणं, तत इदमागतं - अश्लेषा नक्षत्रस्यैकस्मिन् मुहूर्ते एकस्य च मुहूर्त्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाच्छिन्नस्य षट्षष्टिभागेषु शेषेषु प्रथमामावास्यासमाप्तिमुपगच्छतीति, एवं सर्वास्वप्यमावास्यासु करणं भावनीयम् । अत्र पूर्णिमाप्रक्रमे यदमावास्याकरणमुक्तं तत्करणगाथानुरोधेन युगादावमावस्यायाः प्राथम्येन क्रमप्राप्तत्वेन च । अथ प्रस्तुतं पूर्णिमाकरणं ।
॥१॥
'इच्छापुण्णिमगुणिओ अवहारो सोऽत्य होइ कायव्वो । तं चैव य सोहणगं अभिईआई तु कायव्वं ॥" सुद्धमि अ सोहणगे जं सेसं तं हवेज्ज नक्खत्तं ! तत्थ य करेइ उड्डुवइ पडिपुण्णं पुण्णमं विमलं ॥
यथा पूर्वममावास्याचन्द्रनक्षेत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि पौर्णमासीचन्द्रानक्षेत्रपरिज्ञानविधौ ईप्सितपूर्णिमासीगुणितः-यां पूर्णमासीं ज्ञातुमिच्छसि तत्सङ्ख्यया गुणितः कर्त्तव्यः, गुणिते च सति तदेव - पूर्वोक्तं शोधनकं कर्तव्यं, केवलमभिजिदादिकंन तु पुनर्वसुप्रभृतिकं, शुद्धे च शोधनके यच्छेषमवतिष्ठते तद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे करोति उडुपति - चन्द्रमाः परिपूर्णा पूर्णमासीं विमलामिति करणगाथाद्वयाक्षरार्थः, भावना त्वियं-कोऽपि पृच्छति - युगस्यादी प्रथमा पौर्णमासी कस्मिन् चन्द्रनक्षत्रयोगे समाप्तिमुपगच्छतीति, तत्र षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्यैकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिर्धयते, स प्रथमायां पौर्णमास्यां किल पृष्टमित्येकेन गुण्यते,
ततस्तस्माद - भिजितो नव मुहूर्ता एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षटषष्टिसप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोधनीयम्, तत्र च षटषर्नव मुहूर्त्ताः शुधाः स्थिताः पश्चात् सप्तपञ्चाशत् तेभ्यः एको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतः ते च
For Private & Personal Use Only
॥२॥
५०७
Jain Education International
www.jainelibrary.org M