Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४७६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२७६ जातमेकशतसहस्रमष्टानवति शतानि, तदेवं मंडलच्छेदपरिमाणमभिहितं, ननु यानि नक्षत्राणि यन्मण्डलस्थायीनि तेषां तन्मंडलेषु चन्द्रादियोगयोग्यमंडलभागस्थापनयुक्तिमत् न तु सर्वेष्वपि मंडलेषु सर्वेषां भागकल्पनमितिचेत्, उच्यते, नहि नक्षत्राणांचन्द्रादिभिर्योगो नियते दिने नियते देशेनियतवेलायामेव भवति किन्वनियतदिनादौतेनतत्तन्मंडलेषु तत्तन्नक्षत्र-सम्बन्धिसीमाविष्कम्भे चन्द्रादिप्राप्तौ सत्यां योगः सम्पद्यत इति, मंडलच्छेदश्च सीमाविष्कम्भादौ सप्तयोजनः।
अथ सूर्यस्य भागात्मिकां गतिं प्रश्नयत्राह-- एगमेगेणं भंते!' इत्यादि, एकैकेन भगवन् मुहूर्तेन सूर्य कियन्ति भागशतानि गच्छति?, गौतम! यद्यन्मण्डलमुपर्सक्रम्य चारं चरति तस्य तस्य मंडलसम्बन्धिनः परिक्षेपस्याष्टादश भागशतानित्रिंशदधिकानिगच्छति, मण्डलंशतसहस्रणाटानवत्याच शतैः छित्वा, कथमेतदवसीयत इतिचे?, उच्यते, त्रैराशिककरणात्, तथाहि-षष्ट्या मुहूर्तरेकं शतसहस्रमष्टानवति शतानि मंडलभागाना लभ्यन्ते ततः एकेन मुहूर्तेन कति भागान् लभामहे, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं, जातः सतावानेव, एकेन गुणितं तदेवभवतीतिवचनात्, ततस्तस्यायेन राशिना षष्टिलक्षणेन भागो ह्रियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि, एतावतोभागानमण्डलस्यसूर्यएकैकेनमुहूर्तेन गच्छति, अथ नक्षत्राणां भागात्मिकां गतिप्रश्नयनाह- “एगमेगेण मित्यादि, प्रश्नसूत्रं सुगम, उत्तरसूत्रेतुगौतम! यद्यदात्मीयमात्मीयं प्रतिनियतं मण्डलमुपसंक्रम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परिधेरष्टा-दशभागशतानि पञ्चत्रिंशदधिकानिगच्छति, मण्डलंशतसहस्रेणाष्टनवत्या चशतैः छित्वा, इहापि प्रथमतो मण्डलकालोनिरूपणीयस्ततस्तदनुसारेणैव मुहूर्तगतिपरिमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायांइदं त्रैराशिकं यद्यष्टादशभि शतैः पञ्चत्रिंशदधिकैः सकलयुगवर्तिभिरर्द्धमण्डलैर्द्वितीयायविंशतिनक्षत्रापेक्षया तु पूर्णमण्डलैरित्यर्थः अष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्तेततोद्वाभ्यामर्द्धम्णडलाभ्यामेकेन परिपूर्णेन मण्डलेनेति भावः किं लभामहे?
अत्रान्त्येन राशिनामध्यराशेर्गुणनंजातानिषटत्रिशच्छतानि षष्ट्यधिकानि, तत आद्येन राशिना लक्षणेन भागहरणं लब्धमेकंरात्रिन्दिवं, शेषाणितिष्ठन्त्यष्टादशशतानि पञ्चविंशत्यधिकानि, ततो मुहूर्तान- यनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि , तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिकैर्भागे हृते लब्धा एकोनत्रिंशन्मुहूर्ताः, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्तना जात उपरितनो राशिस्त्रणि शतानि सप्तोत्तराणि छेदकराशिस्त्रणि शतानि सप्तषष्ट्यधिकानि , तत आगतमेकं रात्रिन्दिवमेकस्य च रात्रिन्दिवस्यैकोनत्रिंशन्मुहूर्ताः एकस्य च मुहूर्तस्य सप्तषष्ट्यधिकत्रिशतभागानां त्रीणिशतानि सप्तोत्तराणि इदानीमेतदनुसारेण मुहूर्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः तेषु उपरितना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां ततः सा सवर्णनाथ त्रिभिः शतैः षष्ट्यधिकैर्गुण्यते, गुणयित्वा चोपरितनानि त्रीणि शतानि सप्तोत्तराणिप्रक्षिप्यन्तेजातान्येकविंशति सहस्राणि नवशतानिषष्ट्यधिकानि, ततस्तैराशिकं यदि मुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागानामेकविंशत्या सहसः नवभिः शतैः षष्ट्यधिकैरेकं शतसहस्रमष्टानवतिशतानिमण्डलभागानांलभ्यन्ते ततएकेनमुहूर्तेन किंलभामहे? अत्राद्योराशिर्मुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564