Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
वक्षस्कारः -७
४७५
चन्द्रमण्डलकालप्ररूपणा, अथैतदनुसारेण मुहूर्तगति, तत्र ये द्वे रात्रिन्दिवे ते मुहूर्त करणार्थं त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्ताः उपरितनयोर्द्वयोः क्षेपे जाता द्वाषष्टिः, एषां सवर्णनार्थं द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, गुणयित्वा चोपरितनांशत्रयोविंशति प्रक्षिप्यते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानीति, एतदेकमण्डलकालगत मुहूर्त - सत्कैकविंशत्यधिकशतद्वयभागानां परिमाणं, ततत्रैराशिककरणं, यदि त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मंडलभागा एकं शतसहस्रमष्टानव- तिशतानि लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे ? इहाद्यो राशिर्मुहूर्त्तगतैकविंशत्यधिकशतद्वयभागस्वरूपस्ततः सवर्णनार्थमन्त्यो राशिरेकलक्षणो द्वाभ्यां शताभ्यामेकविंशत्यधि-काभ्यां गुण्यते, जाते द्वे शते एकविंशत्यधिके, ताभ्यां मध्यो राशिर्गुण्यते, जाते द्वे कोटयौ द्विचत्वारिं- शल्लक्षाः पञ्चषष्टि सहस्राण्यष्टौ शतानि तेषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागो हियते, लब्धानि सप्तदश शतान्यष्ट- षष्ट्यधिकानि, एतावतो भागान् यत्र तत्र वा मण्डले चन्द्रो मुहूर्तेन गच्छति, अयमर्थः
इहाष्टाविंशत्या नक्षत्रैः स्वगत्या स्वस्वकालपरिमाणेन क्रमशो यावत् क्षेत्र बुध्या व्याप्यमानं सम्भाव्यते तावदेकमर्द्धमण्डलमुपकल्प्यते, एतावतप्रमाणमेव द्वितीयमर्द्धमण्डलं द्वितीयाष्टाविंशतिनक्षत्रसत्कत्तद्भागज्जनितमित्येवंप्रमाणबुद्परिकल्पितमेकमण्डलश्छेदो ज्ञातव्यः एकं लक्षं परिपूर्णानि चाष्टानवतिशतानि कथमेतस्योत्पत्तिरिति चेत्, उच्यते, इह त्रिविधानि नक्षत्राणि, तद्यथा - समक्षेत्राण्यर्द्धक्षेत्राणि द्व्यर्धक्षेत्राणि च इह यावत्प्रमाणं क्षेत्रमहोरात्रेण गम्यते सूर्येण तावव्यमाणं चन्द्रेण सह योगं यानि नक्षत्राणि गच्छंति तानि समक्षेत्राणि, समं - अहोरात्रप्रमितं क्षेत्रं येषां तानि समक्षेत्राणीति व्युत्पत्तेः, तानि च पञ्चदश, तद्यथा-श्रवणं धनिष्ठा पूर्वभद्रपदा रेवती अश्वनी कृत्तिका मृगशिरः पुष्यो मघा पूर्वाफाल्गुनी हस्तः चित्रा अनुराधा मूलः पूर्वाषाढा इति, तथा यानि अर्द्धमहोरात्रप्रमितस्य क्षेत्रस्य चन्द्रण सह योगमश्रुवते तान्यर्द्धक्षेत्राणि, अर्धअर्द्धप्रमाणं क्षेत्रं येषां तान्यर्द्धक्षेत्राणीति व्युत्पत्तिभावात्, तानि च षट्, तद्यथा- शतभिषक् भरणी आर्द्रा अश्लेषा स्वातिज्येष्ठेति, तथा द्वितीयमर्द्ध यस्य तद् द्व्यर्द्ध सार्द्धमित्यर्थः, द्व्यर्द्धअर्द्धेनाधिकं क्षेत्रमहोरात्रप्रमितं चन्द्रयोग्यं येषां तानि व्यर्द्धक्षेत्राणि, तान्यपि षट् ।
तद्यथा - उत्तरभद्रपदोत्तरफल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्रेह सीमापरिमाणचिन्तायामहोरात्रः सप्तषष्टिभागीकृतः परिकल्प्यते इति समक्षेत्राणां प्रत्येकं सप्तषष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणां त्रयस्त्रिंशदर्द्धच, दुव्यर्द्धक्षेत्राणां शतमेकमर्द्ध च, अभिजिन्नक्षत्रस्यैकविंशति सप्तषष्टिभागाः, समक्षेत्राणि नक्षत्राणि पञ्चदशेति सप्तषष्टि पञ्चदशभिर्गुण्यते, जातं सहस्र पञ्चोत्तरं, अर्द्धक्षेत्राणि षडिंति सार्द्धानयत्रशत् षड्भिर्गुण्यते जाते द्वे शते एकोत्तरे, द्व्यर्द्धक्षेत्राण्यपि षट् ततः शतमेकमर्द्ध च षड्भिर्गुणितं जातानि षट् शतानि त्र्युत्तराणि, अभिजिन्नक्षत्रैकविंशति, सर्वसंङ्खयया जातान्यष्टादश शतानि त्रिंशदधिकानि, एतावदभागपरिमाणमेकमर्द्धमंडलमेतावदेव द्वितीयमपीति त्रिंशदधिकान्यष्टादश शतानि द्वाभ्यां गुण्यन्ते जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि एकैकस्मिन्नहोरात्रे किल त्रिंशन्मुहूर्त्ता इति प्रत्येकमेतेषु षष्ट्यधिकषटत्रिंशच्छतसङ्घयेषु भागेषु त्रिंशदभागकल्पनायां त्रिंशता गुण्यन्ते,
,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564