Book Title: Agam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 470
________________ वक्षस्कारः-७ ४६७ गतराशौ द्वासप्तति योजनान्येकपञ्चाशतंचैकषष्टिभागान् योजनस्य एकंच चूर्णिकामागंप्रक्षिप्य यथोक्तंमानमानेतव्यं, त्रीणियोजनलक्षाणिपञ्चदशयोजनसहस्राणिपञ्च चैकोनपञ्चाशदधिकानि योजनशतानि किञ्चिद्विशेषाधिकानिपरिक्षेपेण, इहपूर्वमण्डलपरिरयराशौ द्वेयोजनशते त्रिंशदधिके प्रक्षिप्योपपत्तिः कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह___एवं खलु इत्यादि, पूर्ववत्, निष्कामंश्चन्द्रो यावत्पदात् 'तयानंतराओमंडलाओ तयानंतर मंडल मितिग्राह्यं, संक्रामन् २ द्वासप्ततिं २ योजनानि योजनसंख्यापदगतावीप्सा भागसंख्यापदेष्वपि ग्राह्या, तेनैकपञ्चाशतं एकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधाछित्वाएकमेकंचूर्णिकाभागमेकैकस्मिन्मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् २ द्वेद्वेत्रिंशदधिके योजनशते रिरयवृद्धिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतीति। सम्प्रति पश्चानुपूर्व्या पृच्छति–'सव्वबाहिरए ण'मित्यादि, सर्वबाह्य भदन्त! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत् परिक्षेपेण प्रज्ञप्तम् ?, गौतम ! एकं योजनलक्षं षट् षष्ट्रानिषष्ट्यधिकानियोजनशतान्यायामविष्कम्भाभ्या, उपपत्तिस्तुजंबूद्वीपो लक्ष उभयोः प्रत्येकंत्रीणि योजनशतानि त्रिंशदधिकानि उभयमीलने योजनानां षट् शतानि षष्ट्यधिकानीति, त्रीणि च योजनलक्षाणि अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणियोजनशतानि परिक्षेपेण, अत्रोपपत्ति जंबूद्वीपपरिधौ षष्ट्यधिकषट्शतपरिधौ प्रक्षिप्ते भवति यथोक्तं मानं । अथ द्वितीयं बाह्यानन्तरं द्वितीयं मण्डलमित्यर्थः पृच्छति प्रश्नालापकस्तथैव, उत्तरसूत्रे गौ० एकं योजनलक्षं पञ्च सप्ताशीत्यधिकानि योजनशतानि नव चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्वाषट्चूर्णिकाभागानआयाम-विष्कम्भाभ्यां, अत्रोपपत्तिपूर्वराशेसप्ततिंयोजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य एकंभागमपनीय कर्तव्या, त्रीणि योजनलक्षाणि अष्टादश सहस्राणि पञ्चाशीति योजनानि परिक्षेपेण, सर्वबाह्यमण्डपरिधेढे शते त्रिंशदधिके योजनानामपनयने यथोक्तमानं। अथ तृतीयं 'बाहिरतच्चे णमित्यादि, बाह्यतृतीयं भदन्त! चन्द्रमण्डलं यावच्छब्दात् सर्व प्रश्नसूत्रज्ञेयं, उत्तरसूत्रे-गौतम! एकंयोजनलक्षपञ्च चतुर्दशोत्तराणियोजनशतानिएकोनविंशति चैकषष्टिभागान् योजनस्य एकं चैकषष्टिभागंसप्तधा छित्वापञ्च चूर्णिकाभागान्आयमविष्कम्भाभ्यां, अत्र सङ्गतिस्तु द्वितीयमण्डलराशेः द्वासप्ततियोजनादिकंराशिमपनीय कार्यात्रीणि योजनलक्षाणि सप्तदश सहस्राणि अष्ट च पञ्चपञ्चाशदधिकानि योजनशतानि परिक्षेपे, उपपत्तिस्तु पूर्वराशेर्देव शतेत्रिंशदधिके अपनीय कार्या।अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, पूर्ववत, प्रविशंश्चन्द्रो यावत्पदात् ‘तयानंतराओ मंडलाओ तयानंतरं मण्डल मिति ग्राह्यं, संक्रामन् २ द्वासप्ततिं २ योजनानि एकपञ्चाशतमेकपंचाशतं चैकषष्टिभागान् योजनस्य एकं एकषष्टिभागं च सप्तधा छित्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिं निवर्द्धयन् २ हापयन् २ इत्यर्थः द्वे द्वे त्रिंशदधिके योजनशते परिरयवृद्धिं निवर्द्धयन् २ हापयन् हापयन्नित्यर्थः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति ॥अथ मुहूर्तगतिप्ररूपणा मू. (२७५) जया णं भंते ! चंदे सबभंतरमण्डलं उवसंकमित्ता चारं चरइ तया णं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564