________________
वक्षस्कारः-७
४६७
गतराशौ द्वासप्तति योजनान्येकपञ्चाशतंचैकषष्टिभागान् योजनस्य एकंच चूर्णिकामागंप्रक्षिप्य यथोक्तंमानमानेतव्यं, त्रीणियोजनलक्षाणिपञ्चदशयोजनसहस्राणिपञ्च चैकोनपञ्चाशदधिकानि योजनशतानि किञ्चिद्विशेषाधिकानिपरिक्षेपेण, इहपूर्वमण्डलपरिरयराशौ द्वेयोजनशते त्रिंशदधिके प्रक्षिप्योपपत्तिः कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह___एवं खलु इत्यादि, पूर्ववत्, निष्कामंश्चन्द्रो यावत्पदात् 'तयानंतराओमंडलाओ तयानंतर मंडल मितिग्राह्यं, संक्रामन् २ द्वासप्ततिं २ योजनानि योजनसंख्यापदगतावीप्सा भागसंख्यापदेष्वपि ग्राह्या, तेनैकपञ्चाशतं एकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधाछित्वाएकमेकंचूर्णिकाभागमेकैकस्मिन्मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् २ द्वेद्वेत्रिंशदधिके योजनशते रिरयवृद्धिमभिवर्द्धयन् २ सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतीति।
सम्प्रति पश्चानुपूर्व्या पृच्छति–'सव्वबाहिरए ण'मित्यादि, सर्वबाह्य भदन्त! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत् परिक्षेपेण प्रज्ञप्तम् ?, गौतम ! एकं योजनलक्षं षट् षष्ट्रानिषष्ट्यधिकानियोजनशतान्यायामविष्कम्भाभ्या, उपपत्तिस्तुजंबूद्वीपो लक्ष उभयोः प्रत्येकंत्रीणि योजनशतानि त्रिंशदधिकानि उभयमीलने योजनानां षट् शतानि षष्ट्यधिकानीति, त्रीणि च योजनलक्षाणि अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणियोजनशतानि परिक्षेपेण, अत्रोपपत्ति जंबूद्वीपपरिधौ षष्ट्यधिकषट्शतपरिधौ प्रक्षिप्ते भवति यथोक्तं मानं । अथ द्वितीयं बाह्यानन्तरं द्वितीयं मण्डलमित्यर्थः पृच्छति प्रश्नालापकस्तथैव, उत्तरसूत्रे गौ० एकं योजनलक्षं पञ्च सप्ताशीत्यधिकानि योजनशतानि नव चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्वाषट्चूर्णिकाभागानआयाम-विष्कम्भाभ्यां, अत्रोपपत्तिपूर्वराशेसप्ततिंयोजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य एकंभागमपनीय कर्तव्या, त्रीणि योजनलक्षाणि अष्टादश सहस्राणि पञ्चाशीति योजनानि परिक्षेपेण, सर्वबाह्यमण्डपरिधेढे शते त्रिंशदधिके योजनानामपनयने यथोक्तमानं।
अथ तृतीयं 'बाहिरतच्चे णमित्यादि, बाह्यतृतीयं भदन्त! चन्द्रमण्डलं यावच्छब्दात् सर्व प्रश्नसूत्रज्ञेयं, उत्तरसूत्रे-गौतम! एकंयोजनलक्षपञ्च चतुर्दशोत्तराणियोजनशतानिएकोनविंशति चैकषष्टिभागान् योजनस्य एकं चैकषष्टिभागंसप्तधा छित्वापञ्च चूर्णिकाभागान्आयमविष्कम्भाभ्यां, अत्र सङ्गतिस्तु द्वितीयमण्डलराशेः द्वासप्ततियोजनादिकंराशिमपनीय कार्यात्रीणि योजनलक्षाणि सप्तदश सहस्राणि अष्ट च पञ्चपञ्चाशदधिकानि योजनशतानि परिक्षेपे, उपपत्तिस्तु पूर्वराशेर्देव शतेत्रिंशदधिके अपनीय कार्या।अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, पूर्ववत, प्रविशंश्चन्द्रो यावत्पदात् ‘तयानंतराओ मंडलाओ तयानंतरं मण्डल मिति ग्राह्यं, संक्रामन् २ द्वासप्ततिं २ योजनानि एकपञ्चाशतमेकपंचाशतं चैकषष्टिभागान् योजनस्य एकं एकषष्टिभागं च सप्तधा छित्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिं निवर्द्धयन् २ हापयन् २ इत्यर्थः द्वे द्वे त्रिंशदधिके योजनशते परिरयवृद्धिं निवर्द्धयन् २ हापयन् हापयन्नित्यर्थः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति ॥अथ मुहूर्तगतिप्ररूपणा
मू. (२७५) जया णं भंते ! चंदे सबभंतरमण्डलं उवसंकमित्ता चारं चरइ तया णं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org