Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 379
________________ त्रयोदशं परिशिष्टम् ऋजुपदपद्धतिरचनां, बालशिरः शेखरोऽप्यहं कुर्वे । यस्याः प्रसादवशतः श्रुतदेवी साऽस्तु मे वरदा ॥ ७ ॥ श्रीमलयगिरिप्रभवो यां कर्त्तुमुपाक्रमन्त मतिमन्तः । सा कल्पशास्त्रटीका, मयाऽनुसन्धीयतेऽल्पधिया ॥ ८ ॥ १५६ इह श्रीमदावश्यकादिसिद्धान्तप्रतिबद्ध निर्युक्तिशास्त्रसंसूत्रणसूत्रधारः परोपकारकरणैकदीक्षादीक्षितः सुगृहीतनामधेयः श्रीभद्रबाहुस्वामी सकर्णकर्णपुटपीयमानपीयूषायमाणललितपदकलितपेशलालापकं साधु-साध्वीगतकल्प्या-ऽकल्प्यपदार्थसार्थविधि प्रतिषेधप्ररूपकं यथायोगमुत्सर्गा ऽपवादपदपदवी सूत्रकवचनरचनागर्भं परस्परमनुस्यूताभिसम्बन्धबन्धुरपूर्वापरसूत्रसन्दर्भ प्रत्याख्यानाख्यनवमपूर्वान्तर्गताऽऽचार नाम कतृतीयवस्तुरहस्यनिष्यन्दकल्पं कल्पनामधेयमध्ययनं निर्युक्तियुक्तं निर्यूढवान् । अस्य च स्वल्पग्रन्थमहार्थतया प्रतिसमयमपसर्पदवसर्पिणीपरिणतिपरिहीयमानमति मेधा धारणादिगुणग्रामाणामैदंयुगीनसाधूनां दुरवबोधतया च सकलत्रिलोकीसुभगङ्करणक्षमाश्रमणनामधेयाभिधेयैः श्री सङ्घदासगणि पूज्यैः प्रतिपदप्रकटितसर्वज्ञाज्ञाविराधनासमुद्भूतप्रभूतप्रत्यपायजालं निपुणचरण-करणपरिपालनोपायगोचरविचारवाचालं सर्वथादूषणकरणेनाप्यदूष्यं भाष्यं विरचयाच्च । इदमप्यतिगम्भीरतया मन्दमेधसां दुरवगममवगम्य यद्यप्यनुपकृतपरोपकृतिकृता चूर्णिकृता चूर्णि सूत्रिता तथापि सा निबिडजडिमजम्बालजालजटालानामस्मादृशां जन्तूनां न तथाविधमवबोधनिबन्धनमुपजायत इति परिभाव्य शब्दानुशासनादिविश्वविद्यामयज्योतिःपुञ्जपरमाणुघटितमूर्त्तिभिः श्री मलयगिरिमुनीन्द्रर्षिपादैर्विवरणकरणमुपचक्रमे । तदपि कुतोऽपि हेतोरिदानीं परिपूर्ण नावलोक्यत इति परिभाव्य मन्दमतिमौलिमणिनाऽपि मया गुरूपदेशं निश्रीकृत्य श्रीमलयगिरिविरचित विवरणादू विवरीतुमारभ्यते । विभागः ९ पत्रम् १७७-७८ [२] वृत्तिप्रान्तगता वृत्तिकृतः श्रीक्षेमकीर्त्तः प्रशस्तिः ] सौवर्णा विविधार्थरत्नकलिता एते षडुद्देशकाः, श्री कल्पेऽर्थनिधौ मताः सुकलशा दौर्गत्यदुःखापहे । दृष्ट्वा चूर्णि सुबीजकाक्षरततिं कुश्याऽथ गुर्वाज्ञया, खानं खानममी मया ख- परयोरर्थे स्फुटार्थीकृताः ॥ १ ॥ श्री कल्पसूत्रममृतं विबुधोपयोगयोग्यं जरा-मरणदारुणदुःखहारि । येनोद्धृतं मतिमथा मथिताच्छ्रुतान्धेः, श्रीभद्रबाहुगुरवे प्रणतोऽस्मि तस्मै ॥ २ ॥ येनेदं कल्पसूत्रं कमलमुकुलवत् कोमलं मञ्जुलाभिगोभिर्दोषापहाभिः स्फुटविषयविभागस्य सन्दर्शिकाभिः । उत्फुल्लोद्देशपत्रं सुरसपरिमलोद्वारसारं वितेने, तं निःसम्बन्धबन्धुं नुत मुनिमधुपाः ! भास्करं भाष्यकारम् ॥ ३ ॥ श्री कल्पाध्ययनेऽस्मिन्न तिगम्भीरार्थ भाष्य परिकलिते । विषमपदविवरणकृते, श्रीन्चूर्णिकृते नमः कृतिने ॥ ४ ॥ श्रुतदेवताप्रसादादिदमध्ययनं विवृण्वता कुशलम् । यदवापि मया तेन प्राप्नुयां बोधिमहममलाम् ॥ ५ ॥ गम-नयगभीरनीरश्वित्रोत्सर्गा ऽपवादवादोर्भिः । युक्ति शतरनरम्यो, जैनागमजल निधिर्जयति ॥ ६ ॥ श्री जैनशासननभस्तलतिग्मरश्मिः, श्रीसद्मचान्द्र कुलपद्मविकाशकारी । Jain Education International स्वज्योतिरात दिगम्बर डम्बरोऽभूत्, श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्याम् ॥ ७ ॥ श्रीमच्चैत्र पुरैकमण्डनमहावीर प्रतिष्ठाकृतस्तस्माच्चैत्रपुर प्रबोधतरणेः श्रीचैत्रगच्छोऽजनि । तत्र श्रीभुवनेन्द्रसूरिगुरुर्भूभूषणं भासुरज्योतिः सद्गुणरत्न रोहणगिरिः कालक्रमेणाभवत् ॥ ८ ॥ तत्पादाम्बुजमण्डनं समभवत् पक्षद्वयीशुद्धिमान्, नीर-क्षीरसदृक्ष दूषण- गुणत्याग - ग्रह कत्रतः । कालुष्यं च जडोद्भवं परिहरन् दूरेण सन्मानसस्थायी राजमरालवद् गणिवरः श्रीदेवभद्रप्रभुः ॥ ९ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424