Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 389
________________ १६६ त्रयोदशं परिशिष्टम् तत्र यानि प्रलपति तान्याह सञ्चं भण गोदावरि !, पुव्वसमुद्देण साविया संती। साताहणकुलसरिसं, जति ते कूले कुलं अस्थि ॥ ६२४६ ॥ उत्तरतो हिमवंतो, दाहिणतो सालिवाहणो राया। समभारभरकंता, तेण न पल्हत्थए पुहवी ॥ ६२४७ ॥ हे गोदावरि ! पूर्वसमुद्रेण 'शपिता' दत्तशपथा सती सत्यं 'भण' ब्रूहि-यदि तव कूले सातवाहनकुलसदृशं कुलमस्ति ॥ ६२४६ ॥ 'उत्तरतः' उत्तरस्यां दिशि हिमवान् गिरिः, दक्षिणतस्तु सालवाहनो राजा, तेन समभारभराकान्ता सती पृथिवी न पर्यस्यति, अन्यथा यदि अहं दक्षिणतो न स्यां ततो हिमवगिरिभाराकान्ता नियमतः पर्यस्येत् ॥ ६२४७ ॥ एयाणि य अन्नाणि य, पलवियवं सो अणिच्छियव्वाई। कुसलेण अमञ्चेणं, खरगेणं सो उवाएणं ॥ ६२४८ ॥ 'एतानि' अनन्तरोदितानि अन्यानि च सोऽनीप्सितव्यानि बहूनि प्रलपितवान् । ततः कुशलेन खरकनानाडमात्येनोपायेन प्रतिबोधयितुकामेनेदं विहितम् ॥ ६२४८ ॥ किम् ? इत्याह विदवितं केणं ति व, तुम्मे हिं पायतालणा खरए। कत्थ त्ति मारिओ सो, दुट्ट त्ति य दरिसिते भोगा ॥ ६२४९ ॥ 'विद्रावितं' विनाशितं समस्तं स्तम्भ-कुख्यादि । राज्ञा पृष्टम्-केनेदं विनाशितम् ? । अमात्यः सम्मुखीभूय सरोषं निष्ठुर वक्ति-युष्माभिः । ततो राज्ञा कुपितेन तस्य पादेन ताडना कृता । तदनन्तरं सङ्केतितपुरुषैः स उत्पाटितः सङ्गोपितश्च । ततः समागते कस्मिंश्चित् प्रयोजने राज्ञा पृष्टम्-कुत्रामात्यो वर्तते ? । सङ्केतितपुरुषरुक्तम्-देव ! युप्मत्पादानामविनयकारी इति मारितः । ततः 'दुष्टं कृतं मया' इति प्रभूतं विसूरितवान् । खस्थीभूते च तस्मिन् सङ्केतितपुरुषरमात्यस्य दर्शनं कारितम् । ततः सद्भावकथनानन्तरं राज्ञा तस्मै विपुला भोगाः प्रदत्ता इति ॥ ६२४९ ॥ विभागः ६ पत्रम् १६४७-४९ (११) पादलिप्ताचार्याः कढे पुत्थे चित्ते, दंतोवल मट्टियं व तत्थगतं । एमेव य आगंतुं, पालित्तय बेट्टिया जवणे ॥ ४९१५॥ याः काष्ठकर्मणि पुस्तकर्मणि वा चित्रकर्मणि वा निर्वर्तिता स्त्रीप्रतिमा यद्वा दन्तमयमुपलमयं मृत्तिकामयं वा स्त्रीरूपं यस्यां वसती वसति तत् तस्यां तत्रगतं मन्तव्यम् । तद्विषयो दोषोऽप्युपचारात् तत्रगत उच्यते । एवमेव चागन्तुकमपि मन्तव्यम् । आगन्तुकं नाम यद् अन्यत आगतम् । ततो यथा तत्रगताः स्त्रीप्रतिमा भवन्ति तथाऽऽगन्तुका अपि भवेयुः । तथा चात्र पादलिप्ताचार्यकृता 'बेटिक' त्ति राजकन्यका दृष्टान्तः । स चायम् पालित्तायरिएहिं रन्नो भगिणीसरिसिया जंतपडिमा कया । चंकमणुम्मेसनिमेसमयी तालविंटहत्था आयरियाणं पुरतो चिट्ठइ । राया वि अईव पालित्तगस्स सिणेहं करेइ । धिजाइएहिं पउडेहिं रन्नो कहियंभगिणी ते समणएणं अभिओगिया। राया न पत्तियति, भणिओ अ-पेच्छ, दंसेमु ते। राया आगतो। पासित्ता पालित्तायरियाणं रुट्ठो पच्चोसरिओ य। तओ सा आयरिएहिं चड त्ति विगरणी कया। राया सुट्टतरं आउट्टो ॥ एवमागन्तुका अपि स्त्रीप्रतिमा भवन्ति । 'जवणे' त्ति यवनविषये ईदृशानि स्त्रीरूपाणि प्राचुर्येण क्रियन्ते । ४९१५ ॥ विभागः ५ पत्रम् १३१५-१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424