Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 394
________________ त्रयोदशं परिशिष्टम् १७१ कुतः ? इत्याह-एतावत् तावद् यम्मादार्य क्षेत्रम् , नो "से" तस्य निर्ग्रन्थस्य निर्ग्रन्थ्या वा कल्पते 'अतः' एवंविधाद् आर्यक्षेत्राद् बहिविहर्तुम् । 'ततः परं' बहिर्देशेषु अपि सम्प्रतिनृपतिकालादारभ्य यत्र ज्ञान-दर्शनचारित्राणि 'उत्सर्पन्ति' स्फातिमासादयन्ति तत्र विहर्त्तव्यम् । 'इतिः' परिसमाप्तौ । ब्रवीमि इति तीर्थकर-गणधरोपदेशेन, न तु खमनीषिकयेति सूत्रार्थः ॥ विभागः ३ पत्रम् ९०५-७ साएयम्मि पुरवरे, सभूमिभागम्मि वद्धमाणेण। सुत्तमिणं पण्णत्तं, पडुच्च तं चेव कालं तु ॥ ३२६१ ॥ साकेते पुरवरे सभूमिभागे उद्याने समवसृतेन भगवता, वर्द्धमानस्वामिना सूत्रमिदं 'तमेव' वर्तमानं कालं प्रतीत्य निर्मन्थ-निर्ग्रन्थीनां पुरतः प्रज्ञप्तम् ॥ ३२६१ ॥ कथम् ? इत्याह मगहा कोसंबी या, थूणाविसओ कुणाल विसओ य । एसा विहारभूमी, एतावंताऽऽरियं खेत्तं ॥ ३२६२ ॥ पूर्वस्यां दिशि मगधान दक्षिणस्यां दिशि कौशाम्बी अपरस्यां दिशि स्थूणाविषयं उत्तरस्यां दिशि कुणालाविषयं यावद् ये देशा एतावदार्यक्षेत्रं मन्तव्यम् । अत एव साधूनामेषा विहारभूमी। इतः पर निम्रन्थ-निर्ग्रन्थीनां विहर्तुं न कल्पते ॥ ३२६२ ॥ अथार्यपदस्य निक्षेपनिरूपणायाऽऽह नाम ठवणा दविए, खेत्ते जाती कुले य कम्मे य । भासारिय सिप्पारिय, णाणे तह दसण चरित्ते ॥ ३२६३॥ नामार्याः स्थापनार्याः द्रव्यार्याः क्षेत्रार्याः जाल्यार्याः कुलार्याः कार्याः भाषार्याः शिल्पार्या ज्ञानार्या दर्शनार्याश्चारित्रार्याश्चेति । तत्र नाम-स्थापने सुप्रतीते । द्रव्यार्या नामनादियोग्याः तिनिशवृक्षप्रभृतयः । क्षेत्रार्या अर्द्धषविंशतिजनपदाः तद्वासिनो वा । ते च जनपदा राजगृहादिनगरोपलक्षिता मगधादयः । उक्तञ्च रायगिह मगह १ चंपा, अंगा २ तह तामलित्ति वंगा य ३ । कंचणपुरं कलिंगा ४, वाणारसि चेव कासी य ५॥१॥ साकेत कोसला ६ गयपुरं च कुरु ७ सोरियं कुसहा य ८ । कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १० ॥ २ ॥ वारबई य सुरट्ठा ११, विदेह मिहिला य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिब्भा १४, भद्दिलपुरमेव मलया य १५ ॥३॥ वेराड वच्छ १६ वरणा, अच्छा १७ तह मत्तियावइ दसन्ना १८ । सुत्तीवई य चेदी १९, वीयभयं सिंधुसोवीरा २० ॥ ४ ॥ महुरा य सूरसेणा २१, पावा भंगी य २२ मासपुरि वट्टा २३ । सावत्थी य कुणाला २४, कोडीवरिसं च लाढा य २५॥५॥ सेयविया विय नगरी, केगइअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं, चक्कीणं राम-कण्हाणं ॥६॥ ३२६३ ॥ सम्प्रति जात्यार्यानाहअंबट्ठा य कलंदा य, विदेहा विदका ति य।। हारिया तुंतुणा चेव, छ एता इन्भजातिओ॥ ३२६४ ॥ इह यद्यप्याचारादिषु शास्त्रान्तरेषु बहवो जातिभेदा उपवर्ण्यन्ते तथापि लोके एता एवाम्बष्ठ-कलिन्दवैदेह-विटक-हारित-तन्तणरूपाः 'इभ्यजातयः' अभ्यर्चनीया जातयः प्रसिद्धाः। तत एताभिर्जातिभिरुपेता जात्यार्याः, न शेषजातिभिरिति । ॥ ३२६४ ॥ अथ कुलार्यान् निरूपयति उग्गा भोगा राइण्ण खत्तिया तह य णात कोरव्वा । इक्खागा वि य छट्ठा, कुलारिया होंति नायव्वा ॥ ३२६५॥ 'उग्राः' उपदण्डकारिखादारक्षिकाः । 'भोगाः' गुरुस्थानीयाः । 'राजन्याः' वयस्याः । 'क्षत्रियाः' Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424