________________
त्रयोदशं परिशिष्टम्
१७१ कुतः ? इत्याह-एतावत् तावद् यम्मादार्य क्षेत्रम् , नो "से" तस्य निर्ग्रन्थस्य निर्ग्रन्थ्या वा कल्पते 'अतः' एवंविधाद् आर्यक्षेत्राद् बहिविहर्तुम् । 'ततः परं' बहिर्देशेषु अपि सम्प्रतिनृपतिकालादारभ्य यत्र ज्ञान-दर्शनचारित्राणि 'उत्सर्पन्ति' स्फातिमासादयन्ति तत्र विहर्त्तव्यम् । 'इतिः' परिसमाप्तौ । ब्रवीमि इति तीर्थकर-गणधरोपदेशेन, न तु खमनीषिकयेति सूत्रार्थः ॥
विभागः ३ पत्रम् ९०५-७ साएयम्मि पुरवरे, सभूमिभागम्मि वद्धमाणेण।
सुत्तमिणं पण्णत्तं, पडुच्च तं चेव कालं तु ॥ ३२६१ ॥ साकेते पुरवरे सभूमिभागे उद्याने समवसृतेन भगवता, वर्द्धमानस्वामिना सूत्रमिदं 'तमेव' वर्तमानं कालं प्रतीत्य निर्मन्थ-निर्ग्रन्थीनां पुरतः प्रज्ञप्तम् ॥ ३२६१ ॥ कथम् ? इत्याह
मगहा कोसंबी या, थूणाविसओ कुणाल विसओ य ।
एसा विहारभूमी, एतावंताऽऽरियं खेत्तं ॥ ३२६२ ॥ पूर्वस्यां दिशि मगधान दक्षिणस्यां दिशि कौशाम्बी अपरस्यां दिशि स्थूणाविषयं उत्तरस्यां दिशि कुणालाविषयं यावद् ये देशा एतावदार्यक्षेत्रं मन्तव्यम् । अत एव साधूनामेषा विहारभूमी। इतः पर निम्रन्थ-निर्ग्रन्थीनां विहर्तुं न कल्पते ॥ ३२६२ ॥ अथार्यपदस्य निक्षेपनिरूपणायाऽऽह
नाम ठवणा दविए, खेत्ते जाती कुले य कम्मे य ।
भासारिय सिप्पारिय, णाणे तह दसण चरित्ते ॥ ३२६३॥ नामार्याः स्थापनार्याः द्रव्यार्याः क्षेत्रार्याः जाल्यार्याः कुलार्याः कार्याः भाषार्याः शिल्पार्या ज्ञानार्या दर्शनार्याश्चारित्रार्याश्चेति । तत्र नाम-स्थापने सुप्रतीते । द्रव्यार्या नामनादियोग्याः तिनिशवृक्षप्रभृतयः । क्षेत्रार्या अर्द्धषविंशतिजनपदाः तद्वासिनो वा । ते च जनपदा राजगृहादिनगरोपलक्षिता मगधादयः । उक्तञ्च
रायगिह मगह १ चंपा, अंगा २ तह तामलित्ति वंगा य ३ । कंचणपुरं कलिंगा ४, वाणारसि चेव कासी य ५॥१॥ साकेत कोसला ६ गयपुरं च कुरु ७ सोरियं कुसहा य ८ । कंपिल्लं पंचाला ९, अहिछत्ता जंगला चेव १० ॥ २ ॥ वारबई य सुरट्ठा ११, विदेह मिहिला य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिब्भा १४, भद्दिलपुरमेव मलया य १५ ॥३॥ वेराड वच्छ १६ वरणा, अच्छा १७ तह मत्तियावइ दसन्ना १८ । सुत्तीवई य चेदी १९, वीयभयं सिंधुसोवीरा २० ॥ ४ ॥ महुरा य सूरसेणा २१, पावा भंगी य २२ मासपुरि वट्टा २३ । सावत्थी य कुणाला २४, कोडीवरिसं च लाढा य २५॥५॥ सेयविया विय नगरी, केगइअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं, चक्कीणं राम-कण्हाणं ॥६॥ ३२६३ ॥ सम्प्रति जात्यार्यानाहअंबट्ठा य कलंदा य, विदेहा विदका ति य।।
हारिया तुंतुणा चेव, छ एता इन्भजातिओ॥ ३२६४ ॥ इह यद्यप्याचारादिषु शास्त्रान्तरेषु बहवो जातिभेदा उपवर्ण्यन्ते तथापि लोके एता एवाम्बष्ठ-कलिन्दवैदेह-विटक-हारित-तन्तणरूपाः 'इभ्यजातयः' अभ्यर्चनीया जातयः प्रसिद्धाः। तत एताभिर्जातिभिरुपेता जात्यार्याः, न शेषजातिभिरिति । ॥ ३२६४ ॥ अथ कुलार्यान् निरूपयति
उग्गा भोगा राइण्ण खत्तिया तह य णात कोरव्वा ।
इक्खागा वि य छट्ठा, कुलारिया होंति नायव्वा ॥ ३२६५॥ 'उग्राः' उपदण्डकारिखादारक्षिकाः । 'भोगाः' गुरुस्थानीयाः । 'राजन्याः' वयस्याः । 'क्षत्रियाः'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org