________________
त्रयोदशं परिशिष्टम् सामान्यतो राजोपजीविनः । 'ज्ञाताः' उदारक्षत्रियाः, 'कोरवाः' कुरुवंशोद्भवाः, एते द्वयेऽप्येक एव भेदः । 'इक्ष्वाकवः' ऋषभनाथवंशजाः षष्टाः । एते कुलार्या ज्ञातव्याः ॥ ३२६५ ॥ __ 'भाषाः ' अर्धमागधभाषाभाषिणः । 'शिल्पार्याः' तुण्णाक-तन्तुवायादयः । ज्ञानार्याः पञ्चधा--आभिनिरोधिक-श्रुता-ऽवधि-मनःपर्यय-केवलज्ञानार्यभेदात् । दर्शनार्या द्विधा-सराग-वीतरागदर्शनार्यभेदात् । तत्र सरागदर्शनार्याः क्षायोपशमिकोपशमिकसम्यग्दृष्टिभेदाद् द्विधा । वीतरागदर्शनार्या उपशान्तमोहादयः । चारित्रार्याः पञ्चविधाः-सामायिक-च्छेदोपस्थाप्य-परिहारविशुद्धिक-सूक्ष्मसम्पराय-यथाख्यातभेदात्। अत्र च क्षेत्रायैरधिकारः॥
विभागः ३ पत्रम् ९१२-१४ (२) मण्डलम्
मण्डलमिति देशखण्डम् , यथा पण्णवतिमण्डलानि सुराष्ट्रादेशः। विभागः २ पत्रम् २९८ (३) जनपदप्रकारौ
आणुग जंगल देसे, वासेण विणा वि तोसलिग्गहणं।
पायं च तत्थ वासति, पउरपलंबो उ अन्नो वि ॥ १०६१ ॥ देशो द्विधा-अनूपो जङ्गलश्च । नद्यादिपानीयबहुलोऽनूपः, तद्विपरीतो जङ्गलः निर्जल इत्यर्थः । यद्वा अनूपो अजङ्गल इति पर्यायौ । तत्रायं तोसलिदेशो यतोऽनूपो यतश्चास्मिन् देशे वर्षेण विनाऽपि सारणीपानीयैः सस्यनिष्पत्तिः, अपरं च 'तत्र' तोसलिदेशे 'प्रायः' बाहुल्येन वर्षति ततोऽतिपानीयेन विनष्टेषु सस्येषु प्रलम्बोपभोगो भवति; अन्यच्च तोसालिः प्रचुरप्रलम्बः, तत एतैः कारणैस्तोसलिग्रहणं कृतम् । अन्योऽपि य ईदृशः प्रचुरप्रलम्बस्तत्राप्येष एव विधिः ॥ १०६१ ॥ विभागः २ पत्रम् ३३१-३२ (४) ग्राम-नगर-खेट-कर्बट-मडम्ब-पत्तनादि
गम्मो गमणिजो वा, कराण गसए व बुद्धादी ॥ १०८८ ॥ गम्यो गमनीयो वा अष्ठादशानां कराणामिति व्युत्पत्त्या, असते वा बुद्ध्यादीन् गुणानिति व्युत्पत्त्या वा पृषोदरादिखाद् निरुक्तविधिना ग्राम उच्यते ॥ १०८८ ॥
नत्थेत्थ करो नगरं, खेडं पुण होह धूलिपागारं ।
कब्बडगं तु कुनगरं, मडंबगं सव्वतो छिन्नं ॥ १०८९॥ 'नास्ति' न विद्यतेऽत्राष्टादशकराणामेकोऽपि कर इति नकरम् , नखादित्वाद् नोऽकाराभावः । खेटं पुनधूलीप्राकारपरिक्षिप्तम् । कटं तु कुनगरमुच्यते । मडम्बं नाम यत् 'सर्वतः' सर्वासु दिक्षु च्छिन्नम् , अर्द्धतृतीयगव्यूतमर्यादायामविद्यमानग्रामादिकमिति भावः । अन्ये तु व्याचक्षते-यस्य पार्श्वतो अर्धतृतीययोजनान्तर्यामादिकं न प्राप्यते तद् मडम्बम् ॥ १०८९ ॥
जलपट्टणं च थलपट्टणं च इति पट्टणं भवे दुविहं।
अयमाइ आगरा खलु, दोणमुहं जल-थलपहेणं ॥ १०९० ॥ पत्तनं द्विधा-जलपत्तनं च स्थलपत्तनं च । यत्र जलपथेन नावादिवाहनारूढं भाण्डमुपैति तद् जलपत्तनम् , यथा द्वीपम् । यत्र तु स्थलपथेन शकटादौ स्थापितं भाण्डमायाति तत् स्थलपत्तनम्, यथा आनन्दपुरम् । अयः-लोहं तदादय आकरा उच्यन्ते । यत्र पाषाणधातुधमनादिना लोहमुत्पाद्यते स अयआकरः, आदिशब्दात् ताम्र-रूप्याद्याकरपरिग्रहः । यस्य तु जलपथेन स्थलपथेन च द्वाभ्यामपि प्रकाराभ्यां भाण्डमागच्छति तद् द्वयोः पथोर्मुखमिति निरुक्त्या द्रोणमुखमुच्यते, तञ्च भृगुकच्छं ताम्रलिप्ती वा ॥ १०९० ॥
निगम नेगमवग्गो, वसइ जहिं रायहाणि जहि राया। तावसमाई आसम, निवेसो सत्थाइजत्ता वा ॥ १०९१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org