________________
त्रयोदशं परिशिष्टम्
१७३
निगमं नाम यत्र नैगमाः-वाणिजकविशेपास्तेषां वर्ग:-समूहो वसति, अन एवं निगमे भवा नैगमा इति व्यपदिश्यन्ते । यत्र नगरादौ राजा परिवसति सा राजधानी । आश्रमो यः प्रथमतस्तापसादिभिरावासितः, पश्चादपरोऽपि लोकन्तत्र गत्वा वसति । निवेशो नाम यत्र सार्थ आवासितः, आदिग्रहणेन ग्रामो वा अन्यत्र प्रस्थितः सन् यनान्तरावासमधिवसति, यात्रायां वा गतो लोको यत्र तिष्टति, एप सर्वोऽपि निवेश उच्यते ॥ १०९१॥
संबाहो संवोढुं, वसति जहिं पव्वयाइविसमेसु ।
घोसो उ गोउलं अंसिया उ गामद्धमाईया ॥ १०९२॥ सम्बाधो नाम यत्र कृषीवललोकोऽन्यत्र कर्पणं कृत्रा वणिग्वर्गो वा वाणिज्यं कृत्वाऽन्यत्र पर्वतादिषु विषमे स्थानेषु “संवोढुं” इति कणादिकं समुह्य कोष्टागारादौ च प्रक्षिप्य वसति । तथा घोषस्तु गोकुल भिधीयते। अंशिका तु यत्र ग्रामस्यार्धम् आदिशब्दात् त्रिभागो वा चतुर्भागो वा गला स्थितः सा ग्रामस्यांश एवांशिका ॥ १०९२॥
नाणादिसागयाण, भिजंति पुडा उ जत्थ भंडाणं ।
पुडभेयणं तगं संकरो य केसिंचि कायव्वो ॥ १०९३॥ नानाप्रकाराभ्यो दिग्भ्य आगतानां 'भाण्डानां' कुङ्कुमादीनां पुटा यत्र विक्रयार्थ भिद्यन्ते तत् पुटभेदनमुच्यते । केषाश्चिदाचार्याणां मतेन सङ्करश्च कर्त्तव्यः, “संकरंसि वा" इत्यधिकं पदं पठितव्यमित्यर्थः । सङ्करो नाम-किञ्चिद् ग्रामोऽपि खेटमपि आश्रमोऽपीत्यादि ॥ १०९३ ॥
विभागः २ पत्रम् ३४२-४३ (५) सूत्रपातानुसारेण ग्रामस्य प्रकाराः
उत्ताणग ओमंथिय, संपुडए खंडमल्लए तिविहे ।
भित्ती पडालि वलभी, अक्खाडग रुयग कासवए ॥ ११०३॥ अस्ति ग्राम उत्तानकमल्लकाकारः, अस्ति ग्रामोऽवामुखमल्लकाकारः, एवं सम्पुटकमल्ल. काकारः। खण्डमल्लकमपि त्रिविधं वाच्यम् । तद्यथा-उत्तानकखण्डमल्लकसंस्थितः अवाड्मुखखण्डमल्लुकसंस्थितः सम्पुटकखण्डमल्लकसंस्थितश्च । तथा भित्तिसंस्थितः पडालिकासंस्थितः वलभीसंस्थितः अक्षपाटकसंस्थितः रुचकसंस्थितः काश्यपसंस्थितथेति ॥ ११०३ ॥ अथैषामेव संस्थानानां यथाक्रमं व्याख्यानमाह
मझे गामस्सऽगडो, बुद्धिच्छेदा ततो उ रजूओ।
निक्खम्म मूलपादे, गिण्हतीओ वई पत्ता ॥ ११०४॥ इह यस्य ग्रामस्य मध्यभागे 'अगडः' कूपस्तस्य बुद्ध्या पूर्वादिषु दिक्षु च्छेदः परिकल्प्यते, ततश्च कूपस्याधस्तनतलाद् बुद्धिच्छेदेन रजवो दिक्षु विदिक्षु च निष्काम्य गृहाणां मूलपादान् उपरि कृत्वा गृहत्यस्तिर्यक् तावद् विस्तार्यन्ते यावद् ग्रामपर्यन्तवर्तिनी वृति प्राप्ता भवन्ति. तत उपर्यभिमुखीभूय तावद् गता यावद् उच्छ्रयेण हर्म्यतलानां समीभूताः तत्र च पटहच्छेदेनोपरताः, एष ईदृश उत्तानमल्लकसंस्थितो ग्राम उच्यते, ऊर्वाभिमुखस्य शरावस्यैवमाकारत्वात् ॥ ११०४ ॥
ओमंथिए वि एवं, देउल रुक्खो व जस्स मज्झम्मि ।
कूवस्सुवरि रुक्खो, अह संपुडमल्लओ नाम ॥ ११०५॥ अवाङ्मुखमल्लकाकारेऽप्येवमेव वाच्यम् , नवरं यस्य ग्रामस्य मध्ये देवकुलं वृक्षो वा उच्चस्तरस्तस्य देवकुलादेः शिखराद् रजवोऽवतार्य तिर्यक् तावद् नीयन्ते यावद् वृति प्राप्ताः, ततोऽधोमुखीभूय गृहाणां मूलपादान् गृहीला पटहच्छेदेनोपरताः, एषोऽवाड्मुखमल्लकसंस्थितः । तथा यस्य ग्रामस्य मध्यभागे कूपः, तस्य चोपर्युचतरो वृक्षः, ततः कूपस्याधस्तलाद् रजवो निर्गत्य मूलपादानधोऽधस्तावद् गता यावद् वृति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org