Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 414
________________ त्रयोदशं परिशिष्टम् भीएण खंभकरणं, एत्थुस्सर जा ण देमि वावारं । णिज्जित भूततलागं, आसेण ण पेहसी जाव ॥ ४२२२ ॥ चण्डप्रद्योतनानि नरसिंहे अवन्तिजन पदाधिपत्यमनुभवति नव कुत्रिकापणा उज्जयिन्यामासीरन् । तदा किल भरुयच्छाओ एगो वाणियओ असद्दहंतो उज्जेणीए आगंतूण कुत्तियावणाओ भूयं मग्गइ । तेण कुत्तियावणवाणिएण चिंतियं - 'एस ताव मं पवंचेइ ता एयं मोल्लेण वारेमि' त्ति भणियं— अइ सयसहस्से देसि तो देमि भूयं । तेण तं पि पडिवनं ताहे तेण भन्नइ—- पंचरत्तं उदिक्खाहि तओ दाहामि । तेण अकाऊण देवो पुच्छिओ । सो भणइ - देहि, इमं च भणिहिज्ज - जइ कम्मं न देसि तो भूओ तुमं उच्छा एहि । 'एवं भवउ' त्ति भणित्ता गहिओ तेण भूओ भइ कम्मं मे देहि । दिन्नं, तं खिप्पमेव कयं । पुणो मग्गइ, अन्नं दिनं । एवं सव्वम्मि कम्मे निट्टिए पुणो भणइ - देहि कम्मं । तेण भन्नइ - एत्थं मे चडुत्तरं करेहि जाव अन्नं किंचि कम्मं न देमि । भूओ भणइ अलाहि, पराजितो मि, चिंधं ते करेमि — जाव नावलोएसि तत्थ तलागं भविस्सइ । तेण अस्से विलग्गिऊण बारस जोयणाई गंतूण पलोइयं जाव तक्खणमेव कथं तेण भरुयच्छस्स उत्तरे पासे भूयतलागं नाम तलागं ॥ १९१ अमुमेवार्थमभिधित्सुराह - "भरुयच्छ" इत्यादि । भरुकच्छवणिजा अश्रद्दधता 'भूतः ' पिशाचविशेषः कुत्रिकापणे मार्गितः । ततोऽष्टमं कृत्वा शतसहस्रेण भूतः प्रदत्तः, इदं च भणितम् — कर्मण्यदीयमाने अयं 'रुष्टः' कुपितो मारयतीति । स च भूतं गृहीत्वा भरुकच्छे आगमनं कृत्वा व्यापारदानं तस्य कृतवान् । स भूतस्तं व्यापारं क्षिप्रमेव करोति । ततः सर्वकर्मपरिसमाप्तौ वणिजा भीतेन भूतस्य पार्श्वात् स्तम्भ एकः कारयाञ्चक्रे । ततस्तं भूतमभिहितवान् — यावदपरं व्यापारं न ददामि तावद् 'अत्र' स्तम्भे 'उत्सर' आरोहाSवरोहक्रियां कुरु इति भावः । ततः स भूत उक्तवान् — निर्जितोऽहं भवता, अत आत्मनः पराजयचिह्नं करोमि । अश्वेन गच्छन् यावद् 'न प्रेक्षसे' न पश्चादवलोकसे तत्र प्रदेशे तडागं करिष्यामि इति भणित्वा तथैव कृते भूततडागं कृतवान् ॥ ४२२० ॥ ४२२१ ॥ ४२२२ ॥ एमेव तोसलीए, इसिवालो वाणमंतरो तत्थ । णिजित इसीतलागे, रायगिहे सालिभद्दस्स || ४२२३ ॥ " एवमेव" तोसलिनगरवास्तव्येन वणिजा उज्जयिनीमागम्य कुत्रिकापणाद ऋषिपालो नाम वानमन्तरः क्रीतः । तेनापि तथैव निर्जितेन ऋषितडागं नाम सरश्चक्रे । तथा राजगृहे शालिभद्रस्य रजोहरणं प्रतिग्रहश्च कुत्रिकापणात् प्रत्येकं शतसहस्रेण क्रीतः ॥ ४२२३ ॥ विभागः ४ पत्रम् ११४४-४६ (३) कौलालिकापणः - पणितशाला ॥ ३४४५ ॥ कोलालियावणो खलु, पणिसाला० कौलालिकाः-कुलालक्रय-विक्रयिणस्तेषामापणः पणितशालां मन्तव्या । किमुक्तं भवति ? — यत्र कुम्भकारा भाजनानि विक्रीणते, वणिजो वा कुम्भकारहस्ताद् भाजनानि क्रीला यत्रापणे विक्रीणन्ति सा पणितशाला । विभागः ४ पत्रम् ९६३ ( ४ ) रसापणः रावणो तत्थ दितो ॥ ३५३९ ॥ अत्र ‘रसापणः' मद्यहट्टो दृष्टान्तः । यथा - महाराष्ट्रदेशे रसापणे मद्यं भवतु वा मा वा तथापि तत्परिज्ञानार्थं तत्र ध्वजो बध्यते, तं ध्वजं दृष्ट्वा सर्वे भिक्षाचरादयः परिहरन्ति । विभागः ४ पत्रम् ९८५ Jain Education International ( ५ ) कोट्टकम् ‘जनः' लोकः प्रचुरफलायामटव्यां गत्वा फलानि यावत्पर्याप्तं गृहीत्वा यत्र गत्वा शोषयति पश्चाद् गन्त्रीपोट्टलकादिभिरानीय नगरादौ विक्रीणाति तत् कोट्टकमुच्यते । विभागः २ पत्रम् २७९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424