Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 415
________________ १९२ त्रयोदशं परिशिष्टम् [१४ नाणकानि-सिक्ककाः] कवडुगमादी तंबे, रुप्पे पीते तहेव केवडिए । ॥ १९६९ ॥ कपर्दकादयो मार्गयित्वा तस्य दीयन्ते । ताम्रमयं वा नाणकं यद् व्यवहियते, यथा-दक्षिणापथे काकिणी । रूपमयं वा नाणकं भवति, यथा-भिल्लमाले द्रम्मः। पीतं नाम-सुवर्ण तन्मयं वा नाणकं भवति, यथा-पूर्वदेशे दीनारः। 'केवडिको नाम' यथा तत्रैव पूर्वदेशे केतराभिधानो नाणकविशेषः। विभागः २ पत्रम् ५७३ अथ कतमेन रूपकेणेदं प्रमाणं निरूप्यते ? इत्याह दो साभरगा दीविञ्चगा तु सो उत्तरापथे एको। दो उत्तरापहा पुण, पाडलिपुत्तो हवति एक्को ॥ ३८९१ ॥ 'द्वीपं नाम' सुराष्ट्राया दक्षिणस्यां दिशि समुद्रमवगाह्य यद् वर्तते तदीयौ द्वौ 'साभरको' रूपको स उत्तरापथे एको रूपको भवति । द्वौ च उत्तरापथरूपको पाटलिपुत्रक एको रूपको भवति ॥३८९१ ॥ अथवा दो दक्षिणावहा तू, कंचीए णेलओ स दुगुणो य। एगो कुसुमणगरगो, तेण पमाणं इमं होति ॥ ३८९२ ॥ दक्षिणापथौ द्वौ रूपको काञ्चीपुर्या द्रविड विषयप्रतिबद्धाया एकः 'नेलकः' रूपको भवति । 'सः' काञ्चीपुरीरूपको द्विगुणितः सन् कुसुमनगरसत्क एको रूपको भवति । कुसुमपुरं पाटलिपुत्रमभिधीयते । तेन च' रूपकेणेदमनन्तरोक्तमष्टादशकादिप्रमाणं प्रतिपत्तव्यं भवति ॥ ३८९२ ॥ विभागः ४ पत्रम् १०६९ [१५ वस्त्रादिसम्बद्धो विभागः] (१) वस्त्रपञ्चकम् कम्पइ निग्गंथाण वा निग्गंथीण वा इमाइं पंच वत्थाई धारित्तए वा परिहरित्तए वा । तं जहा-जंगिए भंगिए साणए पोत्तए तिरीडपट्टे नामं पंचमे ॥ (उद्देशः २ सूत्रम् २४) ___ कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि पञ्च वस्त्राणि 'धारयितुं वा' परिग्रहे धर्तुं 'परिहर्तु वा' परिभोक्तुम् । तद्यथा-जङ्गमाः-त्रसाः तदवयवनिप्पन्नं जाङ्गमिकम् । सूत्रे प्राकृतत्वाद् मकारलोपः । भङ्गाअतसी तन्मयं भाङ्गिकम् । सनसूत्रमयं सानकम् । पोतकं-कापासिकम् । तिरीट:--वृक्षविशेषः तस्य यः पट्टः-वल्कलक्षणः तन्निष्पन्नं तिरीटपट्टकं नाम पञ्चमम् ॥ एष सूत्रसङ्केपार्थः । अथ विस्तरार्थ भाष्यकृद् बिभणिघुराह जंगमजायं जंगिय, तं पुण विगलिंदियं च पंचिंदी। एकेकं पि य एत्तो, होति विभागणऽणेगविहं ॥ ३६६१ ॥ जङ्गमेभ्यो जातं जङ्गिकम् , तत् पुनर्विकलेन्द्रियनिष्पन्नं पञ्चेन्द्रियनिष्पन्नं वा । अनयोर्मध्ये एकैकमपि विभागेन चिन्त्यमानमनेकविधं भवति ॥ ३६६१ ॥ तद्यथा पट्ट सुवन्ने मलए, अंसुग चीणंसुके च विगलेंदी । उण्णोट्टिय मियलोमे, कुतवे कि त पंचेंदी ॥ ३६६२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424