Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 418
________________ त्रयोदशं परिशिष्टम् १९५ ज्वलने प्रवर्द्धमाने सर्वमुपकरणमेकवारमशनुवन् कल्पेषु चतुषु पञ्चसु वा बध्नाति, वर्धा च कोल्लुकचक्रन्यायेन परम्परया 'संकलि' ति तान् पोटलकान् दवरकेण सङ्कलय्य यत्र न तृणादिसम्भवस्तत आकाशं तदपि दातप्रतिलोमं तत्र नयति । अथ ज्वलनेनातिप्रसरता ते 'अच्छुढाः' खस्थानं लाजितात्ततो यत् सारं भाण्डमक्षादि तद् निष्काशयन्ति ॥ ५७५ ॥ विभागः ६ पत्रम् १६७० (२) छागलन्यायः किं छागलेण जंपह, किं मं होप्पेह एवऽजाणंता। बहुपहिं को विरोहो, सलभेहि व नागपोतस्स ॥ ६०७९ ॥ किमेवं छागलेन न्यायेन जल्पथ ? वोकटवन्मूर्खतया किमेवमेव प्रलपथ ? इत्यर्थः । किं वा मामेवमजानन्तोऽपि “होप्पेह" गले ला प्रेरयथ? । अथवा ममापि बहुभिः सह को विरोधः? शलभैरिव नागपोतस्येति ॥६०७९ ॥ विभागः ६ पत्रम् १६०७ (३) वणिन्यायः स प्राह-कः पुनर्वणिग्यायो येनेषा शुद्धा क्रियते ? साधवो ब्रुवते वत्थाणाऽऽभरणाणि य, सव्वं छड्डेउ एगवत्थेणं । पोतम्मि विवण्णम्मि वापितधम्मे हवति सुद्धो॥ ६३०९ ॥ यथा कोऽपि वाणिजः प्रभूतं ऋणं कृत्वा प्रवहणेन समुद्रमरगाढः, तत्र 'पोते' प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि चशब्दात् शेषमपि च नानाविधं क्रयाणकं सर्व 'छर्दयित्वा' परित्यज्य 'एकवस्त्रेण' एकेनैव परिधानवाससा उत्तीर्ण: 'वणिग्धर्मे' वणिक्याये 'शुद्धो भवति' न ऋणं दाप्यते । एवमियमपि साध्वी तव सत्कमात्मीयं च सारं सर्व परित्यज्य निष्क्रान्ता, संसारसमुद्रादुत्तीर्णा इति वणिग्धर्मेण शुद्धा, न धनिका ऋणमात्मीयं याचितुं लभन्ते, तस्माद् न किञ्चिदत्र तवाभाव्यमस्तीति करोलिदानीमेषा खेच्छया तपोवाणिज्यम, पोतपरिभ्रष्टवाणिगिव निर्ऋणो वाणिज्यमिति ॥ ६३०९॥ विभागः ६ पत्रम् १६६५ [१९ आयुर्वेदसम्बद्धो विभागः] (१) महावैद्यः अष्टाङ्गायुर्वेदस्य निर्माता च 'योगीव यथा महावैद्यः' इति, 'यथा' इति दृष्टान्तोपन्यासे, 'योगी' धन्वन्तरिः, तेन च विभङ्गज्ञानबलेनाऽऽगामिनि काले प्राचुर्येण रोगसम्भवं दृष्ट्वा अष्टाङ्गायुर्वेदरूपं वैद्यकशास्त्रं चक्रे, तच्च यथाम्नायं येनाधीतं स महावैद्य उच्यते। विभागः२ पत्रम् ३०२ (२) रोग-औषधादि पउमुप्पले माउलिंगे, एरंडे चेव निंबपत्ते य । पित्तुदय सन्निवाए, वायकोवे य सिंभे य ॥ १०२९ ॥ पित्तोदये पद्मोत्पलमौषधम् , सन्निपाते 'मातुलिङ्गं' बीजपूरकम् , वातप्रकोपे एरण्डपत्राणि 'सिमेत्ति लेष्मोदये निम्बपत्राणि ॥ १०२९ ॥ विभागः२पत्रम् ३२३ तथा श्लीपदनाना रोगेण यस्य पादौ शूनौ-शिलावद् महाप्रमाणौ भवतः स एवंविधः लीपदी । विभागः २ पत्रम् ३५८ उक्तञ्च भिषग्वरशास्त्रउत्पद्येत हि साऽवस्था, देश-काला-ऽऽमयान् प्रति । यस्यामकार्य कार्य स्वात् , कर्म कार्य च वर्जयेत् ॥ विभागः ४ पत्रम् ९३६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424