Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 401
________________ १५८ त्रयोदशं परिशिष्टम् __ ये पुनरुत्तरापथे धर्मचक्र मथुरायां देवनिर्मितस्तूप आदिशब्दात् कोशलायां जीवन्तखामिप्रतिमा तीर्थकृतां वा जन्मादिभूमय एवमादिदर्शनार्थ द्रवन्तो निष्कारणिकाः ॥ ५८२४ ॥ विभागः ५पत्रम् १५३६ (१५) गोल्लविषयः पालङ्कशाकं महाराष्ट्रे गोल्लविषये च प्रसिद्धम् । “पालकं मरहट्टविसए गोल्लविसए य सागो जायइ" इति विशेषचूर्णी । विभागः २ पत्रम् ६०३ टि०४ (१६) चीनाजनपदः पट्ट सुवने मलए, अंसुग चीणंसुकै च विगलेंदी । ॥ ३६६२ ॥ चीनांशुको नाम-कोशिकाराख्यः कृमिः तस्माद् जातं चीनांशुकम् , यद्वा चीना नाम जनपदः तत्र यः श्लक्ष्णतरः पट्टः तस्माद् जातं चीनांशुकम् । विभागः ४ पत्रम् १०१८ (१७) डिम्भरेलकम् क्वचिदतिपूरकेण सस्यं निष्पद्यते, यथा बन्नासायां पूरादरिच्यमानायां तत्पूरपानीयभावितायां क्षेत्र. भूमौ धान्यानि प्रकीर्यन्ते; यथा वा डिम्भरेलके महिरावणपूरेण धान्यानि वन्ति। · विभाग: २ पत्रम् ३८३ (१८) ताम्रलिप्तीनगरी यस्य तु जलपथेन स्थलपथेन च द्वाभ्यामपि प्रकाराभ्यां भाण्डमागच्छति तद् द्वयोः पयोर्मुखनिति निरुत्या दोणमुखमुच्यते, तच्च भृगुकच्छं ताम्रलिप्ती वा। विभागः२ पत्रम् ३४२ नेमालि तामलित्तीय, सिंधूसोवीरमादिसु । सन्वलोकोवभोजाई, धरिज कसिणाई वि ॥ ३९१२ ॥ नेपालविषये ताम्रलिप्त्यां नगर्या सिन्धुसौवीरादिषु च विषयेषु सर्वलोकोपभोज्यानि कृत्वान्यपि वस्त्राणि धारयेत् ॥ ३९१२ ॥ विभागः ४ पत्रम् १०७३-७४ (१९) तोसलिदेशः आणुग जंगल देसे, वासेण विणा वि तोसलिग्गहणं । पायं च तत्थ वासति, पउरपलंबो उ अन्नो वि ॥ १०६१ ॥ देशो द्विधा-अभूपो जङ्गलश्च । नद्यादिपानीयबहुलोऽनुपः, तद्विपरीतो जालः निर्जल इत्यर्थः । यद्वा अनूपो अजङ्गल इति पर्यायौ । तत्रायं तोसलिदेशो यतोऽनूपो यतश्चास्मिन् देशे वर्षेण विनाऽपि सारणीपानीयैः सस्यनिष्पत्तिः, अपरं च 'तत्र' तोसलिदेशे 'प्रायः' बाहुल्येन वर्षति ततोऽतिपानीयेन विनष्टेषु सस्येषु प्रलम्बोपभोगो भवति, अन्यच्च तोसलिः प्रचुरप्रलम्बः, तत एतैः कारणैस्तोसलिग्रहणं कृतम् । अन्योऽपि य ईदृशः प्रचुरप्रलम्बस्तत्राप्येष एव विधिः ॥ १०६१॥ . विभागः २ पत्रम् ३३१-३२ "पुप्फ" त्ति जधा पुप्फविकएणं वित्ती भवति, एवं फलविकएण वि; अधवा पुप्फ-फलभोयणं जत्य, जधा तोसलि-कोङ्कणेसु” इति चूर्णी। विभागः२ पत्रम् ३८४ टि०१ आदेसो सेलपुरे, आदाणऽटाहियाए महिमाए । तोसलिषिसए विण्णवणट्ठा तह होति गमणं वा ॥ ३१४९ ॥ 'आदेशः' संखडिविषये दृष्टान्तोऽयम्-तोसलिविषये शैलपुरे नगरे ऋषितडागं नाम सरः । तत्र वर्षे वर्षे भूवान् लोकोऽष्टाहिकामहिमां करोति।x x x॥३१४९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424