Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 411
________________ त्रयोदशं परिशिष्टम् उज्जयन्ते ज्ञातखण्डे सिद्धिशिलायामेवमादिषु सम्यक्त्वभावितेषु तीर्थेषु या: प्रतिवर्षं यात्रा :सङ्घडयो भवन्ति तासु गच्छतो मिथ्यात्वस्थिरीकरणादयो दोषा न भवन्ति ॥ ३१९२ ॥ विभागः ३ पत्रम् ८९३ १८८ [ १२ सङ्घडी यात्रा - अष्टाहिकामहादि ] (१) सङ्घडिशब्दस्यार्थः “भोज्यं” सङ्खडी भवति । आह च चूर्णिकृत् - "भोजं ति वा संखडि त्ति वा एगई । " विभागः ३ पत्रम् ८९० (२) देशविदेशेषु जैनेतरसङ्घडियात्रादि गिरिजन्नगमाईसु व, संखडि उक्कोसलंभे बिइओ उ । अग्गट्टि मंगलट्ठी, पंथिंग वइगाइसू तइओ ॥ २८५५ ॥ गिरियज्ञो नाम - कोङ्कणादिदेशेषु सायाहकालभावी प्रकरणविशेषः । आह च चूर्णिकृत् - “गिरियज्ञः कोङ्कणादिषु भवति उस्सूरे” त्ति । विशेषचूर्णिकारः पुनराह - " गिरिजनो मतबालसंखडी भन्नइ, सा लाडविसए वरिसारत्ते भवइ त्ति । [ गिरिक (ज) न्नत्ति भूमिदाहो त्ति भणितं होइ ।" ] तदादिषु सङ्घडिषु वाशब्दादन्यत्र वा क्वापि सूर्ये ध्रियमाणे उत्कृष्टम् - अवगाहिमादि द्रव्यं लब्ध्वा यावत् प्रतिश्रयमागच्छति तावदस्तमुपगतो रविः ततो रात्रौ भुङ्ग इति द्वितीयो भङ्गः । तथा दक्षिणापथे कुडवार्द्धमात्रया समितया महाप्रमाणो मण्डकः क्रियते स हेमन्तकालेऽरुणोदयवेलायां अनिष्टिकायां पक्त्वा धूलीजङ्घाय दी, ( स गुडघृतोन्मिश्रोऽरुणोदय वेलायां धूलीजङ्घाय दीयते एषोऽनिष्टिका ब्राह्मण उच्यते, प्रत्यन्तरे ) तं गृहीत्वा भुञ्जानस्य तृतीयो भङ्गः । श्राद्धो वा प्रातर्गन्तुकामः साधुं विचारभूमौ गच्छन्तं दृष्ट्वा मङ्गलार्थी अनुगते सूर्ये निमन्त्रयेत् पथिका वा पन्थानं व्यतिव्रजन्तो निमन्त्रयेयुः, व्रजिकायां वाऽनुगते सूर्ये उच्चलितुकामाः साधुं प्रतिलाभयेयुः, एवमादिषु गृहीत्वा भुञ्जानस्य तृतीयो भङ्गो भवति ॥ २८५५ ॥ विभागः ३ पत्रम् ८०७ अथ सङ्खडी कथं कुत्र वा भवति ? इत्युच्यते - Jain Education International आदेसो सेलपुरे, आदाणऽट्ठाहियाए महिमाए । तोसलिविसए विष्णवणट्ठा तह होति गमणं वा ॥ ३१४९ ॥ "आदेशः " सङ्घ डिविषये दृष्टान्तोऽयम् तोसलिविषये शैलपुरे नगरे ऋषितडागं नाम सरः । तत्र वर्षे वर्षे भूयान् लोकोऽष्टाहिकामहिमां करोति । तत्रोत्कृष्टावगाहिमादिद्रव्यस्यादानं - ग्रहणं तदर्थं कोऽपि लुब्धो गन्तुमिच्छति । ततः स गुरूणां विज्ञपनां सङ्घडिगमनार्थ करोति । आचार्या वारयन्ति । तथापि यदि गमनं करोति ततस्तस्य प्रायश्चित्तं दोषाश्च वक्तव्या इति पुरातनगाथासमासार्थः ॥ ३१४९ ॥ अथैनामेव विवृणोति --- सेलपुरे इसितलागमि होति अट्ठाहियामहामहिमा | कोंडलमेंढ पभासे, अब्बुय पादीणवाहम्मि ॥ ३१५० ॥ तोसलिदेशे शैलपुरे नगरे ऋषितडागे सरसि प्रतिवर्षं महता विच्छदेंनाऽष्टाहिकामहामहिमा भवति । तथा कुण्डलमेण्ठनाम्नो वानमन्तरस्य यात्रायां भरुकच्छपरिसरवत्र्त्ता भूयान् लोकः सङ्खडिं करोति । प्रभासे वा तीर्थे अर्बुदे वा पर्वते यात्रायां सङ्खडिः क्रियते । 'प्राचीनवाहः' सरस्वत्याः सम्बन्धी पूर्वदिगभिमुखः प्रवाहः, तत्राऽऽनन्दपुरवास्तव्यो लोको गत्वा यथाविभवं शरदि सङ्खार्ड करोति ॥ ३१५० ॥ विभागः ३ पत्रम् ८८३-८४ "अहवा कोंडलमिंढे कोंडलमेंढो वाणमंतरो | देवद्रोणी भरुयच्छाहरणीए, तत्थ यात्राए बहुजणो For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424