Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
त्रयोदशं परिशिष्टम्
दो साभरगा दीविश्चगा तु सो उत्तरापथे एको। 'द्वीपं नाम' सुराष्ट्राया दक्षिणस्यां दिशि समुद्रमवगाह्य यद् वर्त्तते तदीयौ द्वौ 'साभरको' रूपको स. उत्तरापथे एको रूपको भवति ।
विभागः पत्रम् १०६९ (४६) स्थूणानगरी
न पारदोच्चा गरिहा व लोए, थूणाइएसुं विहरिज एवं ।
भोगाऽइरित्ताऽऽरभडा विभूसा, कप्पेज मिञ्चेव दसाउ तत्थ ॥ ३९०५॥ 'पारदोच्च' त्ति चौरभयं तद् यत्र नास्ति, यत्र च तथाविधे वस्त्रे प्राब्रियमाणे लोके गर्दा नोपजायते तत्र । स्थणादिविषयेषु 'एवं' सकलकृत्स्नमपि वस्त्रं प्रावृत्य विहरेत् , परं तस्य दशाश्छेत्तव्याः । कुतः ? इत्याह
“भोग" त्ति तासां दशानां शुषिरतया परिमोगः कर्तुं न कल्पते, अतिरिक्तश्वोपधिर्भवति, प्रत्युपेक्ष्यमाणे च दशिकाभिरारभडादोषाः, विभूषा च सदशाके वो प्राब्रियमाणे भवति । 'इत्येवम्' एभिः कारणैस्तत्र दशाः 'कल्पयेत्' छिन्द्यात् ॥ ३९०५॥
विभागः ४ पत्रम् १०७२ [११ गिरि-नदी-सरः-तडागादि] (१) अर्बुदपर्वतः कोंडलमेंढ पभासे, अब्बुय०
॥३१५०॥ प्रभासे वा तीर्थे अर्बुदे वा पर्वते यात्रायां संखडिः क्रियते। विभागः ३ पत्रम् ८८४ "पभासे अब्दुए य पव्वए जत्ताए संखडी कीरति” इति चूर्णी विशेषचूर्णौ च ।
विभागः ३ पत्रम् ८८३ टि०७ (२) इन्द्रपद:-गजाग्रपदगिरिः
इन्द्रपदो नाम-गजांग्रपदगिरिः, तत्र ह्युपरिष्टाद् ग्रामो विद्यते अधोऽपि ग्रामो मध्यमश्रेण्यामपि ग्रामः । तस्याश्च मध्यमश्रेण्याश्चतसृष्वपि दिक्षु ग्रामाः सन्ति, ततो मध्यमश्रेणिग्रामे स्थितानां षट्सु दिक्षु क्षेत्रं भवति।
विभागः४ पत्रम् १२९९ (३) उज्जयन्तगिरिः सिद्धिशिला च
उजेत णायसंडे, सिद्धिसिलादीण चेव जत्तासु।
सम्मत्तभाविएसुं, ण हुंति मिच्छत्तदोसा उ ॥ ३१९२॥ उजयन्ते ज्ञातखण्डे सिद्धिशिलायामेवमादिषु सम्यक्त्वभावितेषु तीर्थेषु याः प्रतिवर्ष यात्राःसंखडयो भवन्ति तासु गच्छतो मिथ्यावस्थिरीकरणादयो दोषा न भवन्ति ॥ विभागः ३ पत्रम् ८९३ __ 'धारोदकं नाम' गिरिनिर्झरजलम् , यथा उज्जयन्तादौ । विभागः ४ पत्रम् ९५७ (४) ऐरावती नदी एरवइ कुणालाए
(उद्देशः ४ सूत्रम् ३३) ऐरावती नाम नदी कुणालाया नगर्याः समीपे जङ्घार्द्धप्रमाणेनोद्वेधेन वहति तस्यामन्यस्यां वा यत्रैवं "चकिया" शक्नुयात् उत्तरीतुमिति शेषः ।xxx
एरवइ जम्हि चक्किय, जल-थलकरणे इमं तु णाणत्तं ।
एगो जलम्मि एगो, थलम्मि इहइं थलाऽऽगासं ॥ ५६३८ ॥ ऐरावती नाम नदी, यस्यां जल-स्थलयोः पादकरणेनोत्तरीतुं शक्यम् ॥ विभागः ५ पत्रम् १४९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424