Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
त्रयोदशं परिशिष्टम्
१८५
"कप्पे" त्ति कस्मिन् क्षेत्रे कः कल्पः ?, यथा सिन्धुविषयेऽनिमिषाद्याहारोऽगर्हितः। “विहि" ति कस्मिन् देशे कीदृशः समाचारः? यथा सिन्धुषु रजकाः सम्भोज्याः, महाराष्ट्रविषये कल्पपाला अपि सम्भोज्या इति ॥ १२३९ ॥
विभागः २ पत्रम् ३८४ "मंस त्ति जत्थ मंसेण दुब्भिक्खे लंधिज्जति कालो, जधा सिंधूए सुभिक्खे वि।" इति चूर्णी।।
विभागः २ पत्रम् ३८४ टि०१ "विहि त्ति कम्मि देसे केरिसो आयारो ? जधा सिंधूए णिल्लेवगा संभोइया" इति चूर्णौ । “विहि त्ति जम्मि देसे जो जारिसो आयारो, जधा सिंधुविसए वियडभायणेसु पाणयं अगरहितं भवति, कच्छविसए गिहत्थसंसढे वि उवस्सए वसंताणं नत्थि दोसो” इति विशेषचूर्णौ । विभागः २ पत्रम् ३८४ टि०२ गोरसधातुको वा कश्चित् सिन्धुदेशीयः प्रव्रजितः।
विभागः ३ पत्रम् ७७५ पडिकुट्ट देस कारणगया उ तदुवरमि निति चरणट्ठा ।० ॥ २८८१ ॥ सिन्धुदेशप्रभृतिको योऽसंयमविषयः स भगवता 'प्रतिक्रुष्टः' न तत्र विहर्त्तव्यम् । परं तं प्रतिषिद्धदेशमशिवादिभिः कारणैर्गताः ततो यदा तेषां कारणानाम् 'उपरमः' परिसमाप्तिर्भवति तदा चारित्रार्थ ततोऽसंयमविषयाद् निर्गच्छन्ति, निर्गत्य च संयमविषयं गच्छन्ति।
विभागः ३ पत्रम् ८१६ किञ्चिद् वस्त्रं प्रथमत एव दुर्बलम् ततः पार्था-ऽन्तेषु दशिकाभिर्बद्धेषु 'दृढं' चिरकालवहनक्षम भविष्यतीति कृला तेन कारणेन दशिकास्तस्य न कल्पयेत् । यद्वा 'देशीतः' सिन्ध्वादिदेशमाश्रित्य यन्नातिदीर्घदशाकं वस्त्रं तन्न छिन्द्यात् , तस्य दशिका न कल्पयितव्या इति भावः ॥ ३९०६ ॥ विभागः ४ पत्रम् १०७२ (४३) सिन्धुसौवीरदेशः
यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगराद् उदायननरेन्द्रप्रव्राजनाथ सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलापान्तराले बहवः साधवः क्षुधातास्तषार्दिताः संज्ञाबाधिता यत्र च भगवानावासितस्तत्र तिलभृतानि शकटानि पानीयपूर्णश्च ह्रदः 'समभौमं च' गर्ला-बिलादिवर्जितं स्थण्डिलमभवत् । अपि च विशेषेण तत् तिलोदकस्थण्डिलजातं 'विरहिततरं' अतिशयेनाऽऽगन्तुकैस्तदुत्थैश्च जीवैर्वर्जितमित्यर्थः।
विभागः २ पत्रम् ३१४ नेमालि तामलित्तीय, सिंधूसोवीरमादिसु ।
सव्वलोकोवभोजाई, धरिज कसिणाइँ वि ॥ ३९१२॥ नेपालविषये ताम्रलिप्त्यां नगर्या सिन्धुसौवीरादिषु च विषयेषु सर्वलोकोपभोज्यानि कृत्स्नान्यपि वस्त्राणि धारयेत् ॥ ३९१२ ॥x x x x
उज्झाइवत्थवं चेव, सिंधूमादीसु गरहितो ॥ ३९१३॥ अपि च उज्झाइतं-विरूपं यद् वस्त्रं तद्वान् सिन्धुसौवीरकादिषु गर्हितो भवति, अतस्तत्र कृत्स्नान्यपि परिभोक्तव्यानि ॥ ३९१३ ॥
विभागः ४ पत्रम् १०७३-७४ (४४) सुमनोमुखनगरम्
पाषाणमयः प्राकारो यथा द्वारिकायाम् , इष्टकामयः प्राकारो यथाऽऽनन्दपुरे, मृत्तिकामयो यथा सुमनोमुखनगरे, “खोड" त्ति काष्ठमयः प्राकारः कस्यापि नगरादेर्भवति, कटकाः-वंशदलादिमयाः कण्टिकाः-बुब्बूलादिसम्बन्धिन्यः तन्मयो वा परिक्षेपो ग्रामादेर्भवति, एष सर्वोऽपि द्रव्यपरिक्षेपः ।
विभागः २ पत्रम् ३५१ (४५) सुराष्ट्रादेशः
मण्डलमिति देशखण्डम् , यथा-पण्णवतिमण्डलानि सुराष्ट्रादेशः। विभागः २ पत्रम् २९८ Jain Education International For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424