Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
________________
त्रयोदशं परिशिष्टम्
१७९ सेलपुरे इसितलागम्मि होति अट्टाहिया महामहिमा। ॥ ३१५० ॥ तोसलिदेशे शैलपुरे मगरे ऋषितडागे सरसि प्रतिवर्ष महता विच्छनाष्टाहिकामहामहिमा भवति ।
विभागः ३ पत्रम् ८८३ तोसलिए वग्घरणा, अग्गीकुंडं तहिं जलति निश्चं।
तत्थ सयंवरहेडं, चेडा चेडी य छुब्भंति ॥ ३४४६॥ व्याधरणशाला नाम तोसलिविषये ग्राममध्ये शाला क्रियते, तत्राग्निकुण्डं स्वयंवरहेतोनित्यमेव प्रज्वलति, तत्र च बहवश्चेटका एका च स्वयंवरा चेटिका 'प्रक्षिप्यन्ते' प्रवेश्यन्ते इत्यर्थः । यस्तेषां मध्ये तस्यै प्रतिभाति तमसौ वृणीते, एषा व्याघरणशाला । एतासु तिष्ठतां चत्वारो लघुकाः ॥ ३४४६ ॥ विभागः ४ पत्रम् ९६३ (२०) तोसलिनगरम्
उजेणी रायगिहं, तोसलिनगरे इसी य इसिवालो। ॥४२१९ ॥ उज्जयिनी राजगृहं च नगरं कुत्रिकापणयुक्तमासीत् । तोसलिनगरवास्तव्येन च वणिजा ऋषिपालो नाम वानमन्तर उजयिनीकुत्रिकापणात् क्रीला खबुद्धिमाहात्म्येन सम्यगाराधितः, ततस्तेन अषितडागं नाम सरः कृतम्।
विभागः ४ पत्रम् १९४५ (२१) दक्षिणापथः कपर्दकादयो मार्गयित्वा तस्य धीयन्ते, ताम्रमयं वा नाणकं यद् व्यवडियते, यथा दक्षिणापथे काकिणी।
विभागः२ पत्रम् ५७३ तथा दक्षिणापथे कुडवार्द्धमात्रया समितया महाप्रमाणो मण्डकः क्रियते, स हेमन्तकालेऽरुणोदयवेलायां अमिष्टिकायां पक्त्वा धूलीजङ्घाय दीयते, तं गृहीला भुञानस्य तृतीयो भङ्गः। श्राद्धो वा प्रातर्गन्तुकामः साधु विचारभूमौ गच्छन्तं दृष्ट्वा मङ्गलार्थी अनुगते सूर्ये निमश्रयेत् , पथिका वा पन्थानं व्यतिव्रजन्तो निमन्त्रयेयुः ब्रजिकायां वाऽनुगते सूर्ये उचलितुकामाः साधुं प्रतिलाभयेयुः, एवमादिषु गृहीला भुञानस्य तृतीयो भनो भवति ॥ २८५५॥
विभागः ३ पत्रम् ८०८ दो दक्षिणावहा तु, कंचीए णेलओ स दुगुणो य। दक्षिणापथौ द्वौ रूपको काञ्चीपुर्याः द्रविडविषयप्रतिबद्धायाः एकः 'नेलकः' रूपको भवति ।
विभागः ४ पत्रम् १०६९ (२२) द्रविडजनपद
'देशतः' नानादेशानाश्रियानेकविधम् । यथा-मगधानामोदनः, लाटानां कूरः, द्रमिलानां चौरः, अन्ध्राणामिडाकुरिति ।
विभागः१ पत्रम् २० क्वचित्तु तडागजलैः [ सस्यं निष्पद्यते, ] यथा द्रविडविषये। विभागः २ पत्रम् ३८३
दो दक्षिणावहा तु, कंचीए णेलओ स दुगुणो य। दक्षिणापथौ द्वौ रूपको काञ्चीपुर्याः द्रविडविषयप्रतिवद्धायाः एकः 'नेलकः' रूपको भवति ।
विभागः ४ पत्रम् १०६९ (२३) द्वारिकापुरी पाषाणमयः प्राकारो यथा द्वारिकायाम् ,
विभागः २ पत्रम् ३५१ (२४) द्वीपवेलाकूलम् यत्र नम्पपेन नावादिनाना भाण्डमुपैति तज्जलपत्तनम्, यथा द्वीपम् । विभागः २ पमम् र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424