Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 398
________________ त्रयोदश परिशिष्टम् क्वचित्तु तडागजलैः, यथा द्रविडविपये । वापि कृपपानीयः, यथा उत्तरापथे । कचिदतिपूरकेण, यथा वन्नासायां पूरादवरिच्यमानायां तत्पूरपानीयभावितायां क्षेत्रभूमी धान्यानि प्रकीर्यन्ते; यथा वा डिम्भरेलके महिरावणपूरेण धान्यानि वपन्ति । “नाव" इति यत्र नाचमारोप्य धान्यमानीतमुपभुज्यते, यथा काननहीपे। "वणि" ति यत्र वाणिज्येनैव निरुपजायते न कपणेन, यथा मथुरायाम । 'मंस' ति यत्र दुर्भिक्षे समापतिते मांसेन कालोऽतिवाह्यते । तथा यत्र पुष्प-फलभोगी प्राचुर्येण लोकः, यथा कोकणादिषु । तथा कानि विस्तीर्णानि क्षेत्राणि? कानि वा सङ्क्षिप्तानि?। 'कप्पे' त्ति कस्मिन् क्षेत्रे कः कल्पः?, यथा सिन्धुविपये निमिषाद्याहारोऽगर्हितः । 'विहि' ति कस्मिन् देशे कीदृशः समाचारः ? यथा सिन्धुपु रजकाः सम्भोज्याः, महाराष्ट्रविषये कल्पपाला अपि सम्भोज्या इति ॥ १२३९ ॥ विभागः २ पत्रम् ३८३-८४ "उत्तरापधे अरघटेहिं” इति चूर्णी ॥ विभागः २ पत्रम् ३८३ टि० १ (८) पणित-भाण्ड-कर्म-पचन-इन्धनशालाः व्याधरणशाला च कोलालियावणो खलु, पणिसाला भंडसाल जहिं भंडं । कुंभारकुडी कम्मे, पयणे वासासु आवाओ ॥ ३४४५॥ तोसलिए वग्घरणा, अग्गीकुंडं तहिं जलति निच्चं । तत्थ सयंवरहेडं, चेडा चेडी य छुब्भंति ॥ ३४४६॥ कौलालिकाः--कुलालक्रय-विक्रयिणः तेषामापणः पणितशाला मन्तव्या । किमुक्तं भवति? यत्र कुम्भकारा भाजनानि विक्रीणते, वणिजो वा कुम्भकारहस्ताद् भाजनानि क्रीला यत्रापणे विक्रीणन्ति सा पणितशाला। भाण्डशाला यत्र घट-करकादिभाण्डजातं संगोपितमास्ते । कर्मशाला कुम्भकारकुटी, यत्र कुम्भकारो घटादिभाजनानि करोतीत्यर्थः । पचनशाला नाम यत्राऽऽपाकस्थाने वासु भाजनानि पच्यन्ते । इन्धनशाला तु यत्र तृण-करीष-कचवराम्तिष्ठन्ति ॥ ३४४५ ॥ व्याघरणशाला नाम--तोसलि विषये ग्राममध्ये शाला क्रियते, तत्राग्निकुण्डं स्वयंवरहेतोनित्यमेव तत्र च बहवश्वेटकाः एका च स्वयंवरा चेटिका प्रक्षिप्यन्ते प्रवेश्यन्ते इत्यर्थः । यस्तेषां मध्ये तस्यै प्रतिभाति तमसो वृणीते एषा व्याघरणशाला।। विभागः ४ पत्रम् ९६३ [१० विशिष्टग्राम-नगर-जनपदादि] (१) अन्ध्रजनपदः _ 'देशतः' नानादेशानाश्रिल्यानेकविधम् , यथा--मगधानां ओदनः, लाटानां कूरः द्रमिलानां चौरः, अन्ध्राणां इडाकुरिति । विभागः१ पत्रम् २० (२) अवन्तीजनपदः पजोए णरसीहे, णव उजेणीए कुत्तिया आसी ॥ ४२२० ॥ xxx चण्डप्रद्योतनाम्नि नरसिंहे अवन्तीजनपदाधिपत्यमनुभवति नव कुत्रिकापणाः उज्जयिन्यामासीरन् । विभागः ४ पत्रम् ११४५ (३) आनन्दपुरम् यत्र तु स्थलपथेन शकटादौ स्थापितं भाण्डमायाति तत् स्थलपत्तनम्, यथा आनन्दपुरम् । विभागः २ पत्रम् ३४२ इष्टकामयः प्राकारो यथाऽऽनन्दपुरे,। विभागः २ पत्रम् ३५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424