Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 397
________________ त्रयोदशं परिशिष्टम् प्राप्ताः, तत ऊद्धभिमुखीभूय गत्वा हर्म्यतलानां समश्रेणीभूताः, वृक्षशिखरादप्यवतीर्य रज्जवस्तथैव तिर्यग् वृति प्राप्नुवन्ति, ततोऽधोमुखीभूय कूपसम्बन्धिनीनां रज्जूनामग्रभागः समं सङ्घयन्ते, अथैष सम्पुटकमलकाकारो नाम ग्रामः ॥ ११०५॥ जइ कृवाई पासम्मि होंति तो खंडमल्लओ होइ। पुवावररुक्खेहिं, समसेढीहिं भवे भित्ती ॥ ११०६॥ यदि 'कृपादीनि' कूप-वृक्ष-तदुभयानि 'पार्श्व' एकस्यां दिशि भवन्ति ततः खण्डमलकाकारस्त्रिविधोऽपि ग्रामो यथाक्रम मन्तव्यः । तत्र यस्य ग्रामस्य बहिरेकस्यां दिशि कूपः तामेवैको दिशं मुक्खा शेषासु सप्तसु दिक्षु रजवो निर्गत्य वृतिं प्राप्योपरिहर्म्यतलान्यासाद्य पटहच्छेदेनोपरमन्ते, एष उत्तानकखण्डमल्लकाकारः । अवाङ्मुखखण्डमल्लकाकारोऽप्येवमेव, नवरं यस्यैकस्यां दिशि देवकुलमुच्चैस्तरो वा वृक्षः । सम्पटकखण्डमलकाकारस्तु यस्येकस्यां दिशि कूपस्तदुपरिष्टाच वृक्षः, शेषं प्राग्वत् । “पुव्वावर" इत्यादि, पूर्वस्यामपरस्यां च दिशि समश्रेणिव्यवस्थितक्षेर्भित्तिसंस्थितो ग्रामो भवेत् ॥ ११०६ ॥ 'पासट्ठिए पडाली, वलभी चउकोण ईसि दीहा उ। चउकोणेसु जई दुमा, हवंति अक्खाडतो तम्हा ॥ ११०७ ॥ पडालिकासंस्थितोऽप्येवमेव, नवरमेकस्मिन् पार्श्व वृक्षयुगलं समश्रेण्या व्यवस्थितम् । तथा यस्य ग्रामस्य चतुर्वपि कोणेषु ईषद्दीर्घा वृक्षा व्यवस्थिताः स वलभीसंस्थितः । 'अक्षवाटः' मल्लानां युद्धाभ्यासस्थानम् , तद् यथा समचतुरस्रं भवति एवं यदि ग्रामस्यापि चतुर्पु कोणेपु द्रुमा भवन्ति ततोऽसौ चतुर्विदिग्वतिभिवृक्षैः समचतुरस्रतया परिच्छिद्यमानवादक्षपाटकसंस्थितः ॥ ११०७ ॥ वहागारठिएहिं, रुयगो पुण वेढिओ तरुवरेहि। तिकोणो कासवओ, छुरघरगं कासवं विती ॥ ११०८ ॥ यद्यपि प्रामः स्वयं न समस्तथापि यदि रुचकवलयशैलवद् वृत्ताकारव्यवस्थितेर्वेष्टितस्तदा रुचकसंस्थितः । यस्तु ग्राम एव त्रिकोणतया निविष्टो वृक्षा वा त्रयो यस्य बहिरूयस्राः स्थिताः, एकतो द्वावन्यतस्वेक इत्यर्थः, एष उभयथाऽपि काश्यपसंस्थितः । काश्यपं पुनर्नापितस्य संबन्धि क्षुरगृहं ब्रुवते, तद् यथा त्र्यसं भवत्येवमयमपि ग्राम इति ॥ ११०८ ।। विभागः २ पत्रम् ३४५-४६-४७ (६) प्राकारमेदास्तत्स्थानानि च पासाणिग-मट्टिय-खोड-कडग-कंटिगा भवे व्वे । खाइय-सर-नइ-गड्डा-पव्वय-दुग्गाणि खेत्तम्मि ॥ ११२३ ॥ पापाणमयः प्राकारो यथा द्वारिकायाम् , इष्टकामयः प्राकारो यथाऽऽनन्दपुरे, मृत्तिकामयो यथा सुमनोमुखनगरे, “खोड" त्ति काष्ठमयः प्राकारः कस्यापि नगरादेर्भवति, कटकाः-वंशदलादिमयाः कण्टिका:-बुब्वूलादिसम्बन्धिन्यः तन्मयो वा परिक्षेपो ग्रामादेर्भवति, एष सर्वोऽपि द्रव्यपरिक्षेपः । क्षेत्रपरिक्षेपस्त खातिका वा सरो वा नदी वा गर्ता वा पर्वतो वा दुर्गाणि वा-जलदुर्गादीनि पर्वता एव दुर्गाणि वा, एतानि नगरादिकं परिक्षिप्य व्यवस्थितानि क्षेत्रपरिक्षेप उच्यते ॥ ११२३ ॥ विभागः २ पत्रम् ३५१ (७) भिन्नभिन्नजनपदेषु धान्यनिष्पत्तिप्रकाराः तत्रायं तोसलिदेशो यतोऽनूपो यतश्चास्मिन् देशे वर्षेण विनाऽपि सारणीपानीयैः सस्यनिष्पत्तिः । विभागः २ पत्रम् ३३२ अब्भे नदी तलाए, कूवे अइपुरए य नाव वणी। मंस-फल-पुप्फभोगी, वित्थिन्ने खेत्त कप्प विही ॥ १२३९ ॥ स देशदर्शनं कुर्वन् जनपदानां परीक्षां करोति-कस्मिन् देशे कथं धान्यनिष्पत्तिः । तत्र क्वचिद् देशेऽत्रैः सस्यं निष्पद्यते, वृष्टिपानीयरित्यर्थः, यथा लाटविषये । क्वापि नदीपानीयैः, यथा सिन्धुदेशे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424