________________
१६६
त्रयोदशं परिशिष्टम् तत्र यानि प्रलपति तान्याह
सञ्चं भण गोदावरि !, पुव्वसमुद्देण साविया संती। साताहणकुलसरिसं, जति ते कूले कुलं अस्थि ॥ ६२४६ ॥ उत्तरतो हिमवंतो, दाहिणतो सालिवाहणो राया।
समभारभरकंता, तेण न पल्हत्थए पुहवी ॥ ६२४७ ॥ हे गोदावरि ! पूर्वसमुद्रेण 'शपिता' दत्तशपथा सती सत्यं 'भण' ब्रूहि-यदि तव कूले सातवाहनकुलसदृशं कुलमस्ति ॥ ६२४६ ॥
'उत्तरतः' उत्तरस्यां दिशि हिमवान् गिरिः, दक्षिणतस्तु सालवाहनो राजा, तेन समभारभराकान्ता सती पृथिवी न पर्यस्यति, अन्यथा यदि अहं दक्षिणतो न स्यां ततो हिमवगिरिभाराकान्ता नियमतः पर्यस्येत् ॥ ६२४७ ॥
एयाणि य अन्नाणि य, पलवियवं सो अणिच्छियव्वाई।
कुसलेण अमञ्चेणं, खरगेणं सो उवाएणं ॥ ६२४८ ॥ 'एतानि' अनन्तरोदितानि अन्यानि च सोऽनीप्सितव्यानि बहूनि प्रलपितवान् । ततः कुशलेन खरकनानाडमात्येनोपायेन प्रतिबोधयितुकामेनेदं विहितम् ॥ ६२४८ ॥ किम् ? इत्याह
विदवितं केणं ति व, तुम्मे हिं पायतालणा खरए।
कत्थ त्ति मारिओ सो, दुट्ट त्ति य दरिसिते भोगा ॥ ६२४९ ॥ 'विद्रावितं' विनाशितं समस्तं स्तम्भ-कुख्यादि । राज्ञा पृष्टम्-केनेदं विनाशितम् ? । अमात्यः सम्मुखीभूय सरोषं निष्ठुर वक्ति-युष्माभिः । ततो राज्ञा कुपितेन तस्य पादेन ताडना कृता । तदनन्तरं सङ्केतितपुरुषैः स उत्पाटितः सङ्गोपितश्च । ततः समागते कस्मिंश्चित् प्रयोजने राज्ञा पृष्टम्-कुत्रामात्यो वर्तते ? । सङ्केतितपुरुषरुक्तम्-देव ! युप्मत्पादानामविनयकारी इति मारितः । ततः 'दुष्टं कृतं मया' इति प्रभूतं विसूरितवान् । खस्थीभूते च तस्मिन् सङ्केतितपुरुषरमात्यस्य दर्शनं कारितम् । ततः सद्भावकथनानन्तरं राज्ञा तस्मै विपुला भोगाः प्रदत्ता इति ॥ ६२४९ ॥
विभागः ६ पत्रम् १६४७-४९ (११) पादलिप्ताचार्याः
कढे पुत्थे चित्ते, दंतोवल मट्टियं व तत्थगतं ।
एमेव य आगंतुं, पालित्तय बेट्टिया जवणे ॥ ४९१५॥ याः काष्ठकर्मणि पुस्तकर्मणि वा चित्रकर्मणि वा निर्वर्तिता स्त्रीप्रतिमा यद्वा दन्तमयमुपलमयं मृत्तिकामयं वा स्त्रीरूपं यस्यां वसती वसति तत् तस्यां तत्रगतं मन्तव्यम् । तद्विषयो दोषोऽप्युपचारात् तत्रगत उच्यते । एवमेव चागन्तुकमपि मन्तव्यम् । आगन्तुकं नाम यद् अन्यत आगतम् । ततो यथा तत्रगताः स्त्रीप्रतिमा भवन्ति तथाऽऽगन्तुका अपि भवेयुः । तथा चात्र पादलिप्ताचार्यकृता 'बेटिक' त्ति राजकन्यका दृष्टान्तः । स चायम्
पालित्तायरिएहिं रन्नो भगिणीसरिसिया जंतपडिमा कया । चंकमणुम्मेसनिमेसमयी तालविंटहत्था आयरियाणं पुरतो चिट्ठइ । राया वि अईव पालित्तगस्स सिणेहं करेइ । धिजाइएहिं पउडेहिं रन्नो कहियंभगिणी ते समणएणं अभिओगिया। राया न पत्तियति, भणिओ अ-पेच्छ, दंसेमु ते। राया आगतो। पासित्ता पालित्तायरियाणं रुट्ठो पच्चोसरिओ य। तओ सा आयरिएहिं चड त्ति विगरणी कया। राया सुट्टतरं आउट्टो ॥ एवमागन्तुका अपि स्त्रीप्रतिमा भवन्ति । 'जवणे' त्ति यवनविषये ईदृशानि स्त्रीरूपाणि प्राचुर्येण क्रियन्ते । ४९१५ ॥
विभागः ५ पत्रम् १३१५-१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org