Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 385
________________ १६२ त्रयोदशं परिशिष्टम् द्वारेषु स राजा सत्राकार-महानसानि कारयति । ततो दीना-ऽनाथादिपथिकलोको यसत्र निर्गच्छन् वा प्रविशन् वा भोक्तुमिच्छति स सर्वोऽपि भोजनं कार्यते । यत् तच्छेषमुद्धरति तद् महानसिकानामाभवति । ततो राज्ञा ते महानसिकाः पृष्टाः-यदु युष्माकं दीनादिभ्यो ददतामवशिष्यते तेन यूयं किं कुरुथ । ते ब्रूवते-अस्माकं गृहे उपयुज्यते । नृपतिराह-यद् दीनादिभिरभुक्तं तद् भवद्भिः साधूनां दातव्यम् ॥ ३२७९ ॥ एतदेवाह साहूण देह एयं, अहं मे दाहामि तत्तियं मोल्लं । णेच्छंति घरे घेत्तुं, समणा मम रायपिंडो त्ति ॥ ३२८० ॥ साधूनामेतद् भक्त-पानं प्रयच्छत, अहं 'मे' भवतां तावन्मानं मूल्यं दास्यामि, यतो मम गृहे श्रमणा राजपिण्ड इति कृत्वा ग्रहीतुं नेच्छन्ति ॥ ३२८० ॥ एमेव तेल्लि-गोलिय-पूविय-मोरंड-दुस्सिए चेव ।। जं देह तस्स मोल्लं, दलामि पुच्छा य महगिरिणो ॥ ३२८१ ॥ एवमेव तैलिकास्तैलम् , गोलिकाः-मथितविक्रायिकास्तकादिकम् , पौपिका अपूपादिकम् , मोरण्डकाःतिलादिमोदकाः तद्विक्रायिकास्तिलादिमोदकान् , दौयिका वस्त्राणि च दापिताः । कथम् ? इत्याह-यत् तैल. तक्रादि यूयं साधूनां दत्थ तस्य मूल्यमहं भवतां प्रयच्छामीति । ततश्चाऽऽहार-वस्त्रादौ किमीप्सिते लभ्यमाने श्रीमहागिरिरार्यसुहस्तिनं पृच्छति-आर्य ! प्रचुरमाहार-वस्त्रादिकं प्राप्यते ततो जानीष्व 'मा राज्ञा लोकः प्रवर्तितो भवेत् ॥ ३२८१ ॥ अजसुहत्थि ममत्ते, अणुरायाधम्मतो जणो देती। संभोग वीसुकरणं, तक्खण आउट्टणे नियत्ती ॥ ३२८२ ॥ आर्यसुहस्ती जानानोऽप्यनेषणामात्मीयशिष्यममत्वेन भणति-क्षमाश्रमणाः ! 'अनुराजधर्मतः' राजधर्ममनुवर्तमान एष जन एवं यथेप्सितमाहारादिकं प्रयच्छति । तत आर्यमहागिरिणा भणितम्-आर्य! खमपीदृशो बहुश्रुतो भूखा यद्येवमात्मीयशिष्यममत्वेनेत्थं ब्रवीषि, ततो मम तव चाद्य प्रभृति विष्वक् सम्भोगःनैकत्र मण्डल्यां समुद्देशनादिव्यवहार इति; एवं सम्भोगस्य विष्वक्करणमभवत् । तत आर्यसुहस्ती चिन्तयति'मया तावदेकमनेषणीयमाहारं जानताऽपि साधवो ग्राहिताः, स्वयमपि चानेषणीयं भुक्तम् , अपरं चेदानीमहमिस्थमपलपामि, तदेतद् मम द्वितीयं बालस्य मन्दवमित्यापन्नम् ; अथवा नाद्यापि किमपि विनष्टम् , भूयोऽप्यहमेतस्मादर्थात् प्रतिकमामि' इति विचिन्त्य तत्क्षणादेवाऽऽवर्त्तनमभवत् । ततो यथावदालोचना दत्त्वा खापराधं सम्यक क्षामयिला तस्या अकल्पप्रतिसेवनायास्तस्य निवृत्तिरभूत्। ततो भूयोऽपि तयोः साम्भोगिकत्वमभवत् ॥३२८२॥ अथ “त्रसजीवप्रतिकामकः” (गा० ३२७८ ) इत्यस्य भावार्थमाह सो रायाऽवंतिवती, समणाणं सावतो सुविहिताणं । पच्चंतियरायाणो, सव्वे सद्दाविया तेणं ॥ ३२८३॥ 'सः' सम्प्रतिनामा राजा अवन्तीपतिः श्रमणानां 'श्रावकः' उपासकः पञ्चाणुव्रतधारी अभवदिति शेषः । ते च शाक्यादयोऽपि भवन्तीत्यत आह-'सुविहितानां' शोभनानुष्ठानानाम् । ततस्तेन राज्ञा ये केचित् प्रात्यन्तिकाः-प्रत्यन्तदेशाधिपतयो राजानस्ते सर्वेऽपि 'शब्दापिताः' आकारिताः ॥ ३२८३ ॥ ततः किं कृतम् ? इत्याह कहिओ य तेसि धम्मो, वित्थरतो गाहिता य सम्मत्तं । अप्पाहिता य बहुसो, समणाणं भद्दगा होह ॥ ३२८४ ॥ कथितश्च 'तेषां प्रात्यन्तिकराजानां तेन विस्तरतो धर्मः । ग्राहिताश्च ते सम्यक्त्वम् । ततः स्वदेशं गता अपि ते बहुशस्तेन राज्ञा सन्दिष्टाः, यथा-धमणानां 'भद्रकाः' भक्तिमन्तो भवत ॥ ३२८४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424