________________
१६२
त्रयोदशं परिशिष्टम्
द्वारेषु स राजा सत्राकार-महानसानि कारयति । ततो दीना-ऽनाथादिपथिकलोको यसत्र निर्गच्छन् वा प्रविशन् वा भोक्तुमिच्छति स सर्वोऽपि भोजनं कार्यते । यत् तच्छेषमुद्धरति तद् महानसिकानामाभवति । ततो राज्ञा ते महानसिकाः पृष्टाः-यदु युष्माकं दीनादिभ्यो ददतामवशिष्यते तेन यूयं किं कुरुथ । ते ब्रूवते-अस्माकं गृहे उपयुज्यते । नृपतिराह-यद् दीनादिभिरभुक्तं तद् भवद्भिः साधूनां दातव्यम् ॥ ३२७९ ॥ एतदेवाह
साहूण देह एयं, अहं मे दाहामि तत्तियं मोल्लं ।
णेच्छंति घरे घेत्तुं, समणा मम रायपिंडो त्ति ॥ ३२८० ॥ साधूनामेतद् भक्त-पानं प्रयच्छत, अहं 'मे' भवतां तावन्मानं मूल्यं दास्यामि, यतो मम गृहे श्रमणा राजपिण्ड इति कृत्वा ग्रहीतुं नेच्छन्ति ॥ ३२८० ॥
एमेव तेल्लि-गोलिय-पूविय-मोरंड-दुस्सिए चेव ।।
जं देह तस्स मोल्लं, दलामि पुच्छा य महगिरिणो ॥ ३२८१ ॥ एवमेव तैलिकास्तैलम् , गोलिकाः-मथितविक्रायिकास्तकादिकम् , पौपिका अपूपादिकम् , मोरण्डकाःतिलादिमोदकाः तद्विक्रायिकास्तिलादिमोदकान् , दौयिका वस्त्राणि च दापिताः । कथम् ? इत्याह-यत् तैल. तक्रादि यूयं साधूनां दत्थ तस्य मूल्यमहं भवतां प्रयच्छामीति । ततश्चाऽऽहार-वस्त्रादौ किमीप्सिते लभ्यमाने श्रीमहागिरिरार्यसुहस्तिनं पृच्छति-आर्य ! प्रचुरमाहार-वस्त्रादिकं प्राप्यते ततो जानीष्व 'मा राज्ञा लोकः प्रवर्तितो भवेत् ॥ ३२८१ ॥
अजसुहत्थि ममत्ते, अणुरायाधम्मतो जणो देती।
संभोग वीसुकरणं, तक्खण आउट्टणे नियत्ती ॥ ३२८२ ॥ आर्यसुहस्ती जानानोऽप्यनेषणामात्मीयशिष्यममत्वेन भणति-क्षमाश्रमणाः ! 'अनुराजधर्मतः' राजधर्ममनुवर्तमान एष जन एवं यथेप्सितमाहारादिकं प्रयच्छति । तत आर्यमहागिरिणा भणितम्-आर्य! खमपीदृशो बहुश्रुतो भूखा यद्येवमात्मीयशिष्यममत्वेनेत्थं ब्रवीषि, ततो मम तव चाद्य प्रभृति विष्वक् सम्भोगःनैकत्र मण्डल्यां समुद्देशनादिव्यवहार इति; एवं सम्भोगस्य विष्वक्करणमभवत् । तत आर्यसुहस्ती चिन्तयति'मया तावदेकमनेषणीयमाहारं जानताऽपि साधवो ग्राहिताः, स्वयमपि चानेषणीयं भुक्तम् , अपरं चेदानीमहमिस्थमपलपामि, तदेतद् मम द्वितीयं बालस्य मन्दवमित्यापन्नम् ; अथवा नाद्यापि किमपि विनष्टम् , भूयोऽप्यहमेतस्मादर्थात् प्रतिकमामि' इति विचिन्त्य तत्क्षणादेवाऽऽवर्त्तनमभवत् । ततो यथावदालोचना दत्त्वा खापराधं सम्यक क्षामयिला तस्या अकल्पप्रतिसेवनायास्तस्य निवृत्तिरभूत्। ततो भूयोऽपि तयोः साम्भोगिकत्वमभवत् ॥३२८२॥ अथ “त्रसजीवप्रतिकामकः” (गा० ३२७८ ) इत्यस्य भावार्थमाह
सो रायाऽवंतिवती, समणाणं सावतो सुविहिताणं ।
पच्चंतियरायाणो, सव्वे सद्दाविया तेणं ॥ ३२८३॥ 'सः' सम्प्रतिनामा राजा अवन्तीपतिः श्रमणानां 'श्रावकः' उपासकः पञ्चाणुव्रतधारी अभवदिति शेषः । ते च शाक्यादयोऽपि भवन्तीत्यत आह-'सुविहितानां' शोभनानुष्ठानानाम् । ततस्तेन राज्ञा ये केचित् प्रात्यन्तिकाः-प्रत्यन्तदेशाधिपतयो राजानस्ते सर्वेऽपि 'शब्दापिताः' आकारिताः ॥ ३२८३ ॥ ततः किं कृतम् ? इत्याह
कहिओ य तेसि धम्मो, वित्थरतो गाहिता य सम्मत्तं ।
अप्पाहिता य बहुसो, समणाणं भद्दगा होह ॥ ३२८४ ॥ कथितश्च 'तेषां प्रात्यन्तिकराजानां तेन विस्तरतो धर्मः । ग्राहिताश्च ते सम्यक्त्वम् । ततः स्वदेशं गता अपि ते बहुशस्तेन राज्ञा सन्दिष्टाः, यथा-धमणानां 'भद्रकाः' भक्तिमन्तो भवत ॥ ३२८४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org