________________
त्रयोदशं परिशिष्टम्
अथ कथमसी श्रमणसङ्घप्रभावको जातः ? इत्याह
अणुजाणे अणुजाती, पुप्फारुहणाइ उकिरणगाई।
पूयं च चेइयाणं, ते वि सरजेसु कारिंति ॥ ३२८५ ॥ अनुयानं-रथयात्रा तत्रासो नृपतिः ‘अनुयाति' दण्ड-भट-भोजिकादिसहितो रथेन सह हिण्डते । तत्र च पुष्पारोपणम् आदिशब्दाद् माल्य-गन्ध-चूर्णा-ऽऽभरणारोपणं च करोति । 'उक्किरणगाई' ति रथपुरतो विविधफलानि खाद्यकानि कपर्दक-वस्त्रप्रभृतीनि चोत्किरणानि करोति । आह च निशीथचूर्णिकृत्-रहरगतो य विविहफले खजगे य कवडग-वत्थमादी य ओकिरणे करेइ त्ति ॥ अन्येषां च चैत्यगृहस्थिताना 'चैत्यानां' भगवद्धिम्बानां पूजां महता विच्छर्दैन करोति । तेऽपि च राजान एवमेव खराज्येषु रथयात्रामहोत्सवादिकं कारयन्ति ॥ ३२८५ ॥ इदं च ते राजानः सम्प्रतिनृपतिना भणिताः
जति मं जाणह सामि, समणाणं पणमहा सुविहियाणं।
व्वेण मे न कजं, एयं खु पियं कुणह मज्झं ॥ ३२८६ ॥ यदि मां स्वामिनं यूयं 'जानीथ' मन्यध्वे ततः श्रमणेभ्यः सुविहितेभ्यः 'प्रणमत प्रणता भवत । 'द्रव्येण' दण्डदातव्येनार्थेन मे न कार्यम् , किन्खेतदेव श्रमणप्रणमनादिकं मम प्रियम् , तदेतद् यूयं कुरुत ॥ ३२८६ ॥
वीसजिया य तेणं, गमणं घोसावणं सरजेसु।
साहूण सुहविहारा, जाता पञ्चंतिया देसा ॥ ३२८७ ॥ एवं 'तेन' राज्ञा शिक्षा दत्त्वा विसर्जिताः । ततस्तेषां खराज्येषु गमनम् । तत्र च तैः स्वदेशेषु सर्वत्राप्यमाघातघोषणं कारितम् , चैत्यगृहाणि च कारितानि । तथा प्रात्यन्तिका देशाः साधूनां सुखविहाराः साताः । कथम् ? इति चेदुच्यते-तेन सम्प्रतिना साधवो भणिताः-भगवन्तः! एतान् प्रत्यन्तदेशान् गवा धर्मकथया प्रतिबोध्य पर्यटत । साधुभिरुक्तम्-राजन् ! एते साधूनामाहार-वस्त्र-पात्रादेः कल्प्या-ऽकल्प्यविभागं न जानन्ति ततः कथं वयमेतेषु विहरामः ? । ततः सम्प्रतिना साधुवेषेण खभटाः शिक्षा दत्त्वा तेषु प्रत्यन्तदेशेषु विसर्जिताः ॥ ३२८७ ॥ ततः किमभूत् ? इत्याह
समणभडभाविएसुं, तेसू रज्जेसु एसणादीसु ।
साहू सुहं विहरिया, तेणं चिय भद्दगा ते उ॥ ३२८८ ॥ श्रमणवेषधारिभिर्भटैरेषणादिभिः शुद्धमाहारादिग्रहणं कुर्वाणैः साधुविधिना भावितेषु तेषु राज्येषु साधवः सुखं विहृताः । तत एव च सम्प्रतिपतिकालात् 'ते' प्रत्यन्तदेशा भद्रकाः सजाताः ॥ ३२८८ ॥ इदमेव स्पष्टयति
उदिण्णजोहाउलसिद्धसेणो, स पत्थिवो णिजियसत्तुसेणो।
समंततो साहुसुहप्पयारे, अकासि अंधे दमिले य घोरे ॥ ३२८९ ॥ उदीर्णाः-प्रबला ये योधास्तैराकुला-सङ्कीर्णा सिद्धा प्रतिष्टिता सर्वत्राप्यप्रतिहता सेना यस्य स तथा, अत एव च निर्जितशत्रुसेनः' खवशीकृतविपक्षनृपतिसैन्यः, एवंविधः स सम्प्रतिनामा पार्थिवः अन्ध्रान् द्रविडान् चशब्दाद् महाराष्ट्र-कुडुक्कादीन् प्रत्यन्तदेशान् 'घोरान्' प्रत्यपायबहुलान् समन्ततः 'साधुसुखप्रचारान्' साधूनां सुखविहरणान् 'अकार्षीत्' कृतवान् ॥ ३२८९ ॥ विभागः ३ पत्रम् ९१७-२१ (६) आर्यसुहस्ती आर्यसमुद्रः आर्यमङ्गुश्च
गणहर-थेरकयं वा, आदेसा मुक्कवागरणतो वा।
धुव-चल विसेसतो वा, अंगा-ऽणंगेसु णाणत्तं ॥ ३४४ ॥ यत् गणधरैः कृतं तदङ्गप्रविष्टम् । यत्पुनर्गणधरकृतादेव स्थविरैर्निर्मूढम् ; ये चादेशाः, यथा-आर्यमङ्गु. Jain Education International For Private & Personal Use Only
www.jainelibrary.org