Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 386
________________ त्रयोदशं परिशिष्टम् अथ कथमसी श्रमणसङ्घप्रभावको जातः ? इत्याह अणुजाणे अणुजाती, पुप्फारुहणाइ उकिरणगाई। पूयं च चेइयाणं, ते वि सरजेसु कारिंति ॥ ३२८५ ॥ अनुयानं-रथयात्रा तत्रासो नृपतिः ‘अनुयाति' दण्ड-भट-भोजिकादिसहितो रथेन सह हिण्डते । तत्र च पुष्पारोपणम् आदिशब्दाद् माल्य-गन्ध-चूर्णा-ऽऽभरणारोपणं च करोति । 'उक्किरणगाई' ति रथपुरतो विविधफलानि खाद्यकानि कपर्दक-वस्त्रप्रभृतीनि चोत्किरणानि करोति । आह च निशीथचूर्णिकृत्-रहरगतो य विविहफले खजगे य कवडग-वत्थमादी य ओकिरणे करेइ त्ति ॥ अन्येषां च चैत्यगृहस्थिताना 'चैत्यानां' भगवद्धिम्बानां पूजां महता विच्छर्दैन करोति । तेऽपि च राजान एवमेव खराज्येषु रथयात्रामहोत्सवादिकं कारयन्ति ॥ ३२८५ ॥ इदं च ते राजानः सम्प्रतिनृपतिना भणिताः जति मं जाणह सामि, समणाणं पणमहा सुविहियाणं। व्वेण मे न कजं, एयं खु पियं कुणह मज्झं ॥ ३२८६ ॥ यदि मां स्वामिनं यूयं 'जानीथ' मन्यध्वे ततः श्रमणेभ्यः सुविहितेभ्यः 'प्रणमत प्रणता भवत । 'द्रव्येण' दण्डदातव्येनार्थेन मे न कार्यम् , किन्खेतदेव श्रमणप्रणमनादिकं मम प्रियम् , तदेतद् यूयं कुरुत ॥ ३२८६ ॥ वीसजिया य तेणं, गमणं घोसावणं सरजेसु। साहूण सुहविहारा, जाता पञ्चंतिया देसा ॥ ३२८७ ॥ एवं 'तेन' राज्ञा शिक्षा दत्त्वा विसर्जिताः । ततस्तेषां खराज्येषु गमनम् । तत्र च तैः स्वदेशेषु सर्वत्राप्यमाघातघोषणं कारितम् , चैत्यगृहाणि च कारितानि । तथा प्रात्यन्तिका देशाः साधूनां सुखविहाराः साताः । कथम् ? इति चेदुच्यते-तेन सम्प्रतिना साधवो भणिताः-भगवन्तः! एतान् प्रत्यन्तदेशान् गवा धर्मकथया प्रतिबोध्य पर्यटत । साधुभिरुक्तम्-राजन् ! एते साधूनामाहार-वस्त्र-पात्रादेः कल्प्या-ऽकल्प्यविभागं न जानन्ति ततः कथं वयमेतेषु विहरामः ? । ततः सम्प्रतिना साधुवेषेण खभटाः शिक्षा दत्त्वा तेषु प्रत्यन्तदेशेषु विसर्जिताः ॥ ३२८७ ॥ ततः किमभूत् ? इत्याह समणभडभाविएसुं, तेसू रज्जेसु एसणादीसु । साहू सुहं विहरिया, तेणं चिय भद्दगा ते उ॥ ३२८८ ॥ श्रमणवेषधारिभिर्भटैरेषणादिभिः शुद्धमाहारादिग्रहणं कुर्वाणैः साधुविधिना भावितेषु तेषु राज्येषु साधवः सुखं विहृताः । तत एव च सम्प्रतिपतिकालात् 'ते' प्रत्यन्तदेशा भद्रकाः सजाताः ॥ ३२८८ ॥ इदमेव स्पष्टयति उदिण्णजोहाउलसिद्धसेणो, स पत्थिवो णिजियसत्तुसेणो। समंततो साहुसुहप्पयारे, अकासि अंधे दमिले य घोरे ॥ ३२८९ ॥ उदीर्णाः-प्रबला ये योधास्तैराकुला-सङ्कीर्णा सिद्धा प्रतिष्टिता सर्वत्राप्यप्रतिहता सेना यस्य स तथा, अत एव च निर्जितशत्रुसेनः' खवशीकृतविपक्षनृपतिसैन्यः, एवंविधः स सम्प्रतिनामा पार्थिवः अन्ध्रान् द्रविडान् चशब्दाद् महाराष्ट्र-कुडुक्कादीन् प्रत्यन्तदेशान् 'घोरान्' प्रत्यपायबहुलान् समन्ततः 'साधुसुखप्रचारान्' साधूनां सुखविहरणान् 'अकार्षीत्' कृतवान् ॥ ३२८९ ॥ विभागः ३ पत्रम् ९१७-२१ (६) आर्यसुहस्ती आर्यसमुद्रः आर्यमङ्गुश्च गणहर-थेरकयं वा, आदेसा मुक्कवागरणतो वा। धुव-चल विसेसतो वा, अंगा-ऽणंगेसु णाणत्तं ॥ ३४४ ॥ यत् गणधरैः कृतं तदङ्गप्रविष्टम् । यत्पुनर्गणधरकृतादेव स्थविरैर्निर्मूढम् ; ये चादेशाः, यथा-आर्यमङ्गु. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424