Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 381
________________ १५८ त्रयोदशं परिशिष्टम् चैत्यानि चतुर्विधानि, तद्यथा-साधर्मिकचैत्यानि मङ्गलचैत्यानि शाश्वतचैत्यानि भक्ति. चैत्यानि चेति । तत्र सार्मिकाणामर्थाय यत् कृतं तत् साधर्मिकचैत्यम् । साधर्मिकश्चात्र द्विधा-लिङ्गतः प्रवचनतश्च । तत्रेह लिङ्गनो गृह्यते । स च यथा कुटुम्बी, कुटुम्बी नाम-प्रभूतपरिचारकलोकपरियुतो रजोहरणमुखपोतिकादिलिङ्गधारी वारत्तकप्रतिच्छन्दः । तथा मथुरापुर्या गृहेषु कृतेषु मङ्गलनिमित्तं यद् निवेश्यते तद् मङ्गलचैत्यम् । सुरलोकादौ निवस्थायि शाश्वतचैत्यम् । यत्तु भक्त्या मनुष्यैः पूजा-वन्दनाद्यर्थ कृतं कारितमित्यर्थः तद् भक्तिचैत्यम् । 'तेन च' भक्तिचैत्येन 'आदेशः' अधिकारः, अनुयानादिमहोत्सवस्य तत्रैव सम्भवादिति । एषा नियुक्तिगाथा ॥ १७७४ ॥ अथैनामेव बिभावयिषुः साधर्मिकचैत्यं तावदाह वारत्तगस्स पुत्तो, पडिम कासी य चेइयहरम्मि ।। तत्थ य थली अहेसी, साहम्मियचेइयं तं तु ॥ १७७५ ॥ इहाऽऽवश्यके योगसङ्ग्रहेषु "वारत्तपुरे अभयसेण वारत्ते” (नि० गा० १३०३ पत्र ७०९) इत्यत्र प्रदेशे प्रतिपादितचरितो यो वारत्तक इति नाना महर्षिः, तस्य पुत्रः स्वपितरि भक्तिभरापूरिततया चैत्यगृहं कारयित्वा तत्र रजोहरण-मुखवस्त्रिका-प्रतिग्रहधारिणी पितुः प्रतिमामस्थापयत् । तत्र च 'स्थली' सत्रशाला तेन प्रवर्तिता आसीत् , तदेतत् साधर्मिकचैत्यम् । अस्य च साधर्मिकचैत्यस्यार्थाय कृतमस्माकं कल्पते ॥ १७७५ ॥ अथ मङ्गलचैत्यमाह अरहंत पइट्टाए, महुरानयरीए मंगलाई तु । गेहेसु चचरेसु य, छन्नउईगामअद्धेसु ॥ १७७६ ॥ मथुरानगर्यो गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममहत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तानि मङ्गलचैत्यानि । तानि च तस्यां नगर्यां गेहेषु चत्वरेषु च भवन्ति । न केवलं तस्यामेव किन्तु तत्पुरीप्रतिबद्धा ये षण्णवतिसयाका ग्रामार्दास्तेष्वपि भवन्ति । इहोत्तरापथानां ग्रामस्य प्रामार्द्ध इति संज्ञा । आह च चूर्णिकृत्-गामद्धेसु त्ति देसभणिती, छन्नउइगामेसु त्ति भणियं होइ, उत्तरावहाणं एसा भणिइ त्ति ॥ १७७६ ॥ शाश्वतचैत्य-भक्तिचैत्यानि दर्शयति निइयाई सुरलोए, भत्तिकयाइं तु भरहमाई हिं । निस्सा-ऽनिस्सकयाई, जहिं आएसो चयसु निस्सं ॥ १७७७ ॥ 'नित्यानि' शाश्वतचैत्यानि 'सुरलोके' भवनपति-व्यन्तर-ज्योतिष्क वैमानिकदेवानां भवन-नगर-विमानेषु, उपलक्षणवाद् मेरु शिखर-वैताढ्यादिकूट-नन्दीश्वर-रुचकवरादिष्वपि भवन्तीति । तथा भक्त्या भरतादिभिर्यानि कारितानि अन्तर्भूतण्यर्थत्वाद् भक्तिकृतानि । अत्र च 'जहिं आएसो' ति येन भक्तिचैत्येन 'आदेशः प्रकृतम् तद् द्विधा-निश्राकृतमनिश्राकृतं च । निश्राकृतं नाम-गच्छप्रतिबद्धम्, अनिश्राकृतंतद्विपरीतम् सहसाधारणमित्यर्थः । “चयसु निस्सं" ति यद् निश्राकृतं तत् 'त्यज' परिहर । अनिश्राकृतं तु कल्पते ॥ १७७७ ॥ विभागः२ पत्रम् ५२३-२४ (२) धर्मचक्रम् चके थूभाइता इतरे ॥ ५८२४ ॥ ये पुनरुत्तरापथे धर्मचक्रं मथुरायां देवनिर्मितस्तूप आदिशब्दात् कोशलायां जीवन्त. स्वामिप्रतिमा तीर्थकृतां वा जन्मादिभूमय एवमादिदर्शनार्थ द्रवन्तो निष्कारणिकाः ॥ ५८२४ ॥ विभागः ५ पत्रम् १५३६ (३) स्तूप: थूभमह सवि-समणी०॥ ६२७५॥ महुरानयरीए थूभो देवनिम्मितो। विभागः ६ पत्रम् १६५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424