________________
१५८
त्रयोदशं परिशिष्टम् चैत्यानि चतुर्विधानि, तद्यथा-साधर्मिकचैत्यानि मङ्गलचैत्यानि शाश्वतचैत्यानि भक्ति. चैत्यानि चेति । तत्र सार्मिकाणामर्थाय यत् कृतं तत् साधर्मिकचैत्यम् । साधर्मिकश्चात्र द्विधा-लिङ्गतः प्रवचनतश्च । तत्रेह लिङ्गनो गृह्यते । स च यथा कुटुम्बी, कुटुम्बी नाम-प्रभूतपरिचारकलोकपरियुतो रजोहरणमुखपोतिकादिलिङ्गधारी वारत्तकप्रतिच्छन्दः । तथा मथुरापुर्या गृहेषु कृतेषु मङ्गलनिमित्तं यद् निवेश्यते तद् मङ्गलचैत्यम् । सुरलोकादौ निवस्थायि शाश्वतचैत्यम् । यत्तु भक्त्या मनुष्यैः पूजा-वन्दनाद्यर्थ कृतं कारितमित्यर्थः तद् भक्तिचैत्यम् । 'तेन च' भक्तिचैत्येन 'आदेशः' अधिकारः, अनुयानादिमहोत्सवस्य तत्रैव सम्भवादिति । एषा नियुक्तिगाथा ॥ १७७४ ॥ अथैनामेव बिभावयिषुः साधर्मिकचैत्यं तावदाह
वारत्तगस्स पुत्तो, पडिम कासी य चेइयहरम्मि ।।
तत्थ य थली अहेसी, साहम्मियचेइयं तं तु ॥ १७७५ ॥ इहाऽऽवश्यके योगसङ्ग्रहेषु "वारत्तपुरे अभयसेण वारत्ते” (नि० गा० १३०३ पत्र ७०९) इत्यत्र प्रदेशे प्रतिपादितचरितो यो वारत्तक इति नाना महर्षिः, तस्य पुत्रः स्वपितरि भक्तिभरापूरिततया चैत्यगृहं कारयित्वा तत्र रजोहरण-मुखवस्त्रिका-प्रतिग्रहधारिणी पितुः प्रतिमामस्थापयत् । तत्र च 'स्थली' सत्रशाला तेन प्रवर्तिता आसीत् , तदेतत् साधर्मिकचैत्यम् । अस्य च साधर्मिकचैत्यस्यार्थाय कृतमस्माकं कल्पते ॥ १७७५ ॥ अथ मङ्गलचैत्यमाह
अरहंत पइट्टाए, महुरानयरीए मंगलाई तु ।
गेहेसु चचरेसु य, छन्नउईगामअद्धेसु ॥ १७७६ ॥ मथुरानगर्यो गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषु प्रथममहत्प्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तानि मङ्गलचैत्यानि । तानि च तस्यां नगर्यां गेहेषु चत्वरेषु च भवन्ति । न केवलं तस्यामेव किन्तु तत्पुरीप्रतिबद्धा ये षण्णवतिसयाका ग्रामार्दास्तेष्वपि भवन्ति । इहोत्तरापथानां ग्रामस्य प्रामार्द्ध इति संज्ञा । आह च चूर्णिकृत्-गामद्धेसु त्ति देसभणिती, छन्नउइगामेसु त्ति भणियं होइ, उत्तरावहाणं एसा भणिइ त्ति ॥ १७७६ ॥ शाश्वतचैत्य-भक्तिचैत्यानि दर्शयति
निइयाई सुरलोए, भत्तिकयाइं तु भरहमाई हिं ।
निस्सा-ऽनिस्सकयाई, जहिं आएसो चयसु निस्सं ॥ १७७७ ॥ 'नित्यानि' शाश्वतचैत्यानि 'सुरलोके' भवनपति-व्यन्तर-ज्योतिष्क वैमानिकदेवानां भवन-नगर-विमानेषु, उपलक्षणवाद् मेरु शिखर-वैताढ्यादिकूट-नन्दीश्वर-रुचकवरादिष्वपि भवन्तीति । तथा भक्त्या भरतादिभिर्यानि कारितानि अन्तर्भूतण्यर्थत्वाद् भक्तिकृतानि । अत्र च 'जहिं आएसो' ति येन भक्तिचैत्येन 'आदेशः प्रकृतम् तद् द्विधा-निश्राकृतमनिश्राकृतं च । निश्राकृतं नाम-गच्छप्रतिबद्धम्, अनिश्राकृतंतद्विपरीतम् सहसाधारणमित्यर्थः । “चयसु निस्सं" ति यद् निश्राकृतं तत् 'त्यज' परिहर । अनिश्राकृतं तु कल्पते ॥ १७७७ ॥
विभागः२ पत्रम् ५२३-२४ (२) धर्मचक्रम्
चके थूभाइता इतरे ॥ ५८२४ ॥ ये पुनरुत्तरापथे धर्मचक्रं मथुरायां देवनिर्मितस्तूप आदिशब्दात् कोशलायां जीवन्त. स्वामिप्रतिमा तीर्थकृतां वा जन्मादिभूमय एवमादिदर्शनार्थ द्रवन्तो निष्कारणिकाः ॥ ५८२४ ॥
विभागः ५ पत्रम् १५३६ (३) स्तूप:
थूभमह सवि-समणी०॥ ६२७५॥ महुरानयरीए थूभो देवनिम्मितो। विभागः ६ पत्रम् १६५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org