________________
त्रयोदशं परिशिष्ठम्
१५७
शस्याः शिष्यास्त्रयस्तत्पदसरसिरहोत्सङ्गशृङ्गारभृङ्गा,
विध्वस्तानङ्गसजा सुविहितविहितोत्तुगरणा बभूवुः । तत्रायः सच्चरित्रानुमतिकृतमतिः श्रीजगञ्चन्द्रसूरिः,
श्रीमद्देवेन्द्रसूरिः सरलतरलसचित्तवृत्तिर्द्वितीयः ॥ १० ॥ तृतीयशिष्याः श्रुतवारिवार्धयः, परीषहाक्षोभ्यमनःसमाधयः ।
जयन्ति पूज्या विजयेन्दुसूरयः, परोपकारादिगुणौधभूरयः ॥ ११॥ प्रौढं मन्मथपार्थिवं त्रिजगतीजैत्रं विजित्यैयुषां, येषां जैनपुरे परेण महसा प्रक्रान्तकान्तोत्सवे । स्थैर्य मेरुरगाधतां च जलधिः सर्वसहवं मही, सोमः सौम्यमहपतिः किल महत्तेजोऽकृत प्राभृतम् ॥ १२ ॥ वापं वापं प्रवचनवचोबीजराजी विनेयक्षेत्रवाते सुपरिमलिते शब्दशास्त्रादिसारैः । यैः क्षेत्रज्ञैः शुचिगुरुजनानायवाक्सारणीभिः, सिक्वा तेने सुजनहृदयानन्दि सज्ज्ञानसस्यम् ॥ १३ ॥
यैरप्रमत्तैः शुभमन्त्रजापैतालमाधाय कलिं खवश्यम् ।
अतुल्यकल्याणमयोत्तमार्थसत्पुरुषः सत्त्वधनैरसाधि ॥ १४ ॥ किं बहुना?
ज्योत्स्नामञ्जलया यया धवलितं विश्वम्भरामण्डलं,
या निःशेषविशेषविज्ञजनताचेतश्चमत्कारिणी। तस्याः श्रीविजयेन्दुसूरिसुगुरोर्निष्कृत्रिमाया गुण
श्रेणेः स्याद् यदि वास्तवस्तवकृतौ विज्ञः स वाचांपतिः ॥ १५॥ तत्पाणिपङ्कजरजःपरिपूतशीर्षाः, शिष्यास्त्रयो दधति सम्प्रति गच्छभारम् ।
श्रीवज्रसेन इति सद्गुरुरादिमोऽत्र, श्रीपद्मचन्द्रमुगुरुस्तु ततो द्वितीयः ॥ १६॥ तातीयीकस्तेषां, विनेयपरमाणुरनणुशास्त्रेऽस्मिन् । श्रीक्षेमकीर्तिसूरिर्विनिर्ममे विवृतिमल्पमतिः ॥ १७ ॥ श्रीविक्रमतः कामति, नयनाग्निगुणेन्दुपरिमिते १३३२ वर्षे । ज्येष्ठश्वेतदशम्यां, समर्थितैषा च हस्तार्के॥१८॥ प्रथमादर्श लिखिता, नयप्रभप्रभृतिभिर्यतिभिरेषा । गुरुतरगुरुभक्तिभरोद्वहनादिव नम्रितशिरोभिः ॥ १९ ॥
इह च--सूत्रादर्शेषु यतो, भूयस्यो वाचना विलोक्यन्ते।
विषमाश्च भाष्यगाथाः, प्रायः स्वल्पाश्च चूर्णिगिरः ॥ २० ॥ ततः-सूत्रे वा भाष्ये वा, यन्मतिमोहान्मयाऽन्यथा किमपि। लिखितं वा विवृतं वा, तन्मिथ्या दुष्कृतं भूयात् ॥ २१ ॥
विभागः ६ पत्रम् १७१०-१२ [३ जैनशासनम् ] जं इच्छसि अप्पणतो, जं च ण इच्छसि अप्पणतो। तं इच्छ परस्स वि या, एत्तियगं जिणसासणयं ॥ ४५८४ ॥
विभागः ४ पत्रम् १२३७ [ ४ जैनचैत्य-धर्मचक्र-स्तूपादि] (१) साधर्मिक-मङ्गल-शाश्वत-भक्तिचैत्यानि
साहम्मियाण अट्टा, चउब्धिहे लिंगओ जह कुटुंबी। मंगल-सासय-भत्तीइ जं कयं तत्थ आदेसो ॥ १७७४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org