Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 06
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

Previous | Next

Page 380
________________ त्रयोदशं परिशिष्ठम् १५७ शस्याः शिष्यास्त्रयस्तत्पदसरसिरहोत्सङ्गशृङ्गारभृङ्गा, विध्वस्तानङ्गसजा सुविहितविहितोत्तुगरणा बभूवुः । तत्रायः सच्चरित्रानुमतिकृतमतिः श्रीजगञ्चन्द्रसूरिः, श्रीमद्देवेन्द्रसूरिः सरलतरलसचित्तवृत्तिर्द्वितीयः ॥ १० ॥ तृतीयशिष्याः श्रुतवारिवार्धयः, परीषहाक्षोभ्यमनःसमाधयः । जयन्ति पूज्या विजयेन्दुसूरयः, परोपकारादिगुणौधभूरयः ॥ ११॥ प्रौढं मन्मथपार्थिवं त्रिजगतीजैत्रं विजित्यैयुषां, येषां जैनपुरे परेण महसा प्रक्रान्तकान्तोत्सवे । स्थैर्य मेरुरगाधतां च जलधिः सर्वसहवं मही, सोमः सौम्यमहपतिः किल महत्तेजोऽकृत प्राभृतम् ॥ १२ ॥ वापं वापं प्रवचनवचोबीजराजी विनेयक्षेत्रवाते सुपरिमलिते शब्दशास्त्रादिसारैः । यैः क्षेत्रज्ञैः शुचिगुरुजनानायवाक्सारणीभिः, सिक्वा तेने सुजनहृदयानन्दि सज्ज्ञानसस्यम् ॥ १३ ॥ यैरप्रमत्तैः शुभमन्त्रजापैतालमाधाय कलिं खवश्यम् । अतुल्यकल्याणमयोत्तमार्थसत्पुरुषः सत्त्वधनैरसाधि ॥ १४ ॥ किं बहुना? ज्योत्स्नामञ्जलया यया धवलितं विश्वम्भरामण्डलं, या निःशेषविशेषविज्ञजनताचेतश्चमत्कारिणी। तस्याः श्रीविजयेन्दुसूरिसुगुरोर्निष्कृत्रिमाया गुण श्रेणेः स्याद् यदि वास्तवस्तवकृतौ विज्ञः स वाचांपतिः ॥ १५॥ तत्पाणिपङ्कजरजःपरिपूतशीर्षाः, शिष्यास्त्रयो दधति सम्प्रति गच्छभारम् । श्रीवज्रसेन इति सद्गुरुरादिमोऽत्र, श्रीपद्मचन्द्रमुगुरुस्तु ततो द्वितीयः ॥ १६॥ तातीयीकस्तेषां, विनेयपरमाणुरनणुशास्त्रेऽस्मिन् । श्रीक्षेमकीर्तिसूरिर्विनिर्ममे विवृतिमल्पमतिः ॥ १७ ॥ श्रीविक्रमतः कामति, नयनाग्निगुणेन्दुपरिमिते १३३२ वर्षे । ज्येष्ठश्वेतदशम्यां, समर्थितैषा च हस्तार्के॥१८॥ प्रथमादर्श लिखिता, नयप्रभप्रभृतिभिर्यतिभिरेषा । गुरुतरगुरुभक्तिभरोद्वहनादिव नम्रितशिरोभिः ॥ १९ ॥ इह च--सूत्रादर्शेषु यतो, भूयस्यो वाचना विलोक्यन्ते। विषमाश्च भाष्यगाथाः, प्रायः स्वल्पाश्च चूर्णिगिरः ॥ २० ॥ ततः-सूत्रे वा भाष्ये वा, यन्मतिमोहान्मयाऽन्यथा किमपि। लिखितं वा विवृतं वा, तन्मिथ्या दुष्कृतं भूयात् ॥ २१ ॥ विभागः ६ पत्रम् १७१०-१२ [३ जैनशासनम् ] जं इच्छसि अप्पणतो, जं च ण इच्छसि अप्पणतो। तं इच्छ परस्स वि या, एत्तियगं जिणसासणयं ॥ ४५८४ ॥ विभागः ४ पत्रम् १२३७ [ ४ जैनचैत्य-धर्मचक्र-स्तूपादि] (१) साधर्मिक-मङ्गल-शाश्वत-भक्तिचैत्यानि साहम्मियाण अट्टा, चउब्धिहे लिंगओ जह कुटुंबी। मंगल-सासय-भत्तीइ जं कयं तत्थ आदेसो ॥ १७७४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424