Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Author(s): Madhukarmuni, Rajendramuni, Shobhachad Bharilla
Publisher: ZZZ Unknown
View full book text ________________
RRC
शवानि षट्त्रिंशानि एकभवग्रहणप्रमाणेन षट्पञ्चाशेन शतद्वंयेनावलिकानां गुण्यन्ते तथाऽपि तावत्य एवावलिका भवन्ति, उक्तश्च"एगा कोडी सत्तहि लक्ख सत्तत्तरी सहस्सा य । दो य सया सोलहिया आवलियाओ मुत्तमि ॥१॥" एवं च यदुच्यते 'संखेजाओ आवलियाओ एगे ऊसासनीसासे' इत्यादि वदतीव समीचीनमिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र सयोगिमवस्थकेवस्यनाहारकस्यान्तरमभिधित्सुराह-'सजोगिभवत्थकेवलिअणाहारयस्स णं भंते।' इत्यादि प्रभसूत्र सुगम, भगवानाइ-गौतम जघन्येनाप्यन्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्त, समुद्यातप्रतिपत्तेरनन्तरमेवान्तर्मुहूर्तेन शैलेशीप्रतिपत्तिभावात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिक्रमवसातव्यं अन्यथोभयपदोपन्यासायोगात् । अयोगिभवस्थकेवल्यनाहारकसूत्रे नास्त्यन्तरं, अयोग्यवस्थायां सर्वस्याप्यनाहारकत्वात् । एवं सिद्धस्यापि साद्यपर्यवसितस्यानाहारकस्यान्तराभावो भावनीयः ॥ साम्प्रतमेतेषामाहारकानाहारकाणामल्पबहुवमाह-एएसिम णं भंते! इत्यादि प्रसूत्रं सुगम, भगवानाह-गौतम! सर्वस्तोका अनाहारका:, सिद्धविग्रहगत्यापन्नसमुद्घातगतसयोगिकेवल्ययोगिकेवलिनामेवानाहारकलान, तेभ्य आहारका असाहयेयगुणाः, अथ सिद्धेभ्योऽनन्तगुणा वनस्पतिजीवास्ते च प्राय आहारका इत्यनन्तगुणाः कथं न भवन्ति!, उच्यते, इह प्रतिनिगोदमसक्येयो भागः प्रविसमयं सदा विग्रहगत्यापनो लभ्यते, विग्रहगत्यापन्ना अनाहारकाः, "विग्गहगहमावना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीरा ॥ १॥" [विग्रहगत्यापन्नाः समुद्धता: अयोगिनश्च केवढिन: सिद्धाश्चानाहाराः शेषा आहारका जीवाः॥१॥"] इतिवचनात् ततोऽसोयगुणा एवाहारका घटन्ते नानन्तगुणा इति ॥ प्रकारान्तरेण भूयो द्वैविध्यमाह
अहवा दुविहा सव्वजीचा पण्णत्ता, संजहा-सभासगा अभासगा य ॥ सभासए णं भंते! स
Loading... Page Navigation 1 ... 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935