Book Title: Agam 04 Ang 04 Samvayanga Sutram Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 483
________________ ५२ कतिपयानि विशिष्टानि टिप्पनानि । पृ०४३ पं०८] “कहि णं भंते ! विजयस्स देवस्स विजया णाम रायहाणी पण्णत्ता ?, गोयमा ! विजयस्स णं दारस्स पुरत्थिमेणं तिरियमसंखेजे दीवसमुद्दे वीतिवतित्ता अण्णंमि जंबुद्दीवे दीवे बारस जोयणसहस्साई ओगाहित्ता एत्थ णं विजयस्स देवस्स विजया णाम रायहाणी प० बारस जोयणसहस्साई आयामविक्खंभेणं सत्ततीसजोयणसहस्साइं नव य अडयाले जोयणसए 5 किंचिविसेसाहिए परिक्खेवेणं पण्णत्ते.... ॥ [सू० १३५] ॥ व्या०- कहि णं भंते ! विजयस्सेत्यादि, क्क भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता ?, भगवानाह- गौतम ! विजयस्य द्वारस्य पूर्वस्यां दिशि तिर्यग् असङ्ख्येयान् द्वीपसमुद्रान् व्यतिव्रज्य अतिक्रम्य अत्रान्तरे योऽन्यः जम्बूद्वीपः अधिकृतद्वीपतुल्याभिधानः, अनेन जम्बूद्वीपानामप्यसङ्ख्येयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राणि अवगाह्य अत्रान्तरे विजयस्य देवस्य योग्या विजया नाम राजधानी प्रज्ञप्ता मया 10 शेषैश्च तीर्थकृद्भिः, सा च द्वादश योजनसहस्राणि आयामविष्कम्भेण आयामविष्कम्भाभ्याम्, सप्तत्रिंशद् योजनसहस्राणि नव शतानि अष्टाचत्वारिंशानि अष्टचत्वारिंशदधिकानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, इदं च परिक्षेपपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ' [ ] इति करणवशात् स्वयमानेतव्यम् ॥” इति जीवाभिगमसूत्रे तृतीयायां प्रतिपत्तौ प्रथमे उद्देशके मलयगिरिसूरिविरचितायां वृत्तौ ॥ 15 [पृ०६० पं०१५, पृ०१५९, पं०२] “सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥७/१६०॥ टी० शतभिषक् भरणी आर्द्रा अश्लेषा स्वाति: ज्येष्ठा, च: समुच्चये एतानि षट् नक्षत्राणि पञ्चदश मुहूर्तान् यावत् चन्द्रेण सह संयोगः सम्बन्धो येषां तानि तथा, तद्यथा- एतेषां षण्णामपि नक्षत्राणां प्रत्येक सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्द्धान् त्रयस्त्रिंशद्भागान् यावच्चन्द्रेण सह योगो भवति ततो 20 मुहूर्तगतसप्तषष्टिभागकरणार्थं त्रयस्त्रिंशत् त्रिंशता गुण्यन्ते जातानि नव शतानि नवतानि नवत्यधिकानि ९९० यदपि चार्द्धं तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिभागास्ते पूर्वराशौ प्रक्षिप्यन्ते जातः पूर्वराशिः सहस्रं पञ्चोत्तरम् १००५, अस्य सप्तषष्ट्या भागे हृते लब्धाः पञ्चदश मुहूर्ता इति । तथा- “तिण्णेव उत्तराई पुणव्वसू रोहिणी विसाहा य । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥७/१६०॥ टी० तिस्र उत्तराः उत्तरफल्गुनी उत्तराषाढा उत्तरभद्रपदा 25 इत्येवंरूपाः पुनर्वसू रोहिणी विशाखा, च: समुच्चये, एतानि एवकारस्य भिन्नक्रमत्वादेतान्येवेति योज्यम्, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, षड् नक्षत्राणि पञ्चचत्वारिंशतं मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषां तानि तथा, तद्यथा-अत्रापि षण्णां नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कानां भागानां शतमेकमेकस्य च भागस्यार्द्धं चन्द्रेण सह योगस्तत्रैषां भागानां मुहूर्तगतभागकरणार्थं शतं प्रथमतस्त्रिंशता गुण्यते जातानि त्रीणि सहस्राणि पञ्चदशोत्तराणि ३०१५, एतेषां सप्तषष्ट्या Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566