Book Title: Agam 04 Ang 04 Samvayanga Sutram Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
तृतीयं परिशिष्टम् । वर्तते, अथवा सद्भावतः स्थितमन्वर्थे अनुगतः संबद्धः परमैश्वर्यादिकोऽर्थो यत्र सोऽन्वर्थः शचीपत्यादिः, सद्भावतस्तत्र स्थितम्, भृतकदारकादौ तर्हि कथं वर्तते ?, इत्याह-तदर्थनिरपेक्षं तस्येन्द्रादिनाम्नोऽर्थस्तदर्थः परमैश्वर्यादिस्तस्य निरपेक्षं संकेतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वर्तते, इति पर्यायानभिधेयम्, स्थितमन्यार्थे, अन्वर्थे वा, तदर्थनिरपेक्षं यत् क्वचिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते तद् नाम, इतीह तात्पर्यार्थः । प्रकारान्तरेणाऽपि नाम्नः स्वरूपमाह- यादृच्छिकं 5 चेति, इदमुक्तं भवति- न केवलमनन्तरोक्तम्, किन्त्वन्यत्राऽवर्तमानमपि यदेवमेव यदृच्छया केनचिद् गोपालदारकादेरभिधानं क्रियते, तदपि नाम, यथा डित्थो डवित्थ इत्यादि । इदं चोभयरूपमपि कथंभूतम् ?, इत्याह- यावद्र्व्यं च प्रायेणेति -यावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिदं नामाऽप्यवतिष्ठत इति भावः । किं सर्वमपि ?, न, इत्याह- प्रायेणेति, मेरु-द्वीप-समुद्रादिकं नाम प्रभूतं यावद्र्व्यभावि दृश्यते, किञ्चित् त्वन्यथाऽपि समीक्ष्यते, देवदत्तादिनामवाच्यानां द्रव्याणां 10 विद्यमानानामप्यपरापरनामपरावर्तस्य लोके दर्शनात् । सिद्धान्तेऽपि यदुक्तम्-“नामं आवकहिअं" [ ]ति तत् प्रतिनियतजनपदादिसंज्ञामेवाऽङ्गीकृत्य, यथोत्तराः कुरव इत्यादि । तदेवं प्रकारद्वयेन नाम्नः स्वरूपमत्रोक्तम्, एतच्च तृतीयप्रकारस्योपलक्षणम्, पुस्तक-पत्र-चित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णावलीमात्रस्याऽप्यन्यत्र नामत्वेनोक्तत्वादिति । एतच्च सामान्येन नाम्नो लक्षणमुक्तम्, प्रस्तुते त्वेवं योज्यते-यत्र मङ्गलार्थशून्ये वस्तुनि मङ्गलमिति नाम क्रियते, तद् वस्तु नाम्ना नाममात्रेण 15 मङ्गलमिति कृत्वा नाममङ्गलमित्युच्यते । पुस्तकादिलिखितं च यद् मङ्गलमिति वर्णावलीमात्रम्, तदपि नाम च तद् मङ्गलं चेति कृत्वा नाममङ्गलमित्यभिधीयते ॥ इति गाथार्थः ॥२५॥” इति विशेषावश्यकभाष्ये मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ ।
[पृ०२२९ पं०१३] इह यादृशं ज्ञाताधर्मकथाङ्गस्य वर्णनं दृश्यते तादृशमेव प्रायोऽक्षरशः नन्दीसूत्रस्य हरिभद्रसूरिविरचितायां वृत्तौ दृश्यते । किन्तु जिनदासगणिमहत्तरविरचितायां चूर्णी 20 अन्यथा दृश्यते, यथा- “तत्थ णातेसु आदिमा दस णाता चेव, ण तेसु अक्खादियादिसंभवो। सेसा णव णाता, तेसु एक्कक्के णाते चत्तालीसं चत्तालीसं अक्खाइयाओ भवंति, तत्थ वि एक्केक्काए अक्खाइयाए पंच पंच उवक्खाइयासताई भवंति, तेसु वि एक्केक्काए उवक्खाइयाए पंच पंच अक्खाइओवक्खाइयसताई भवंति, एवं एते णव कोडीओ । एताओ धम्मकहासु सोहेतव्व त्ति कातुं एकोणवीसाए णाताणं दसण्ह य धम्मकहाणं विसेसो कजति-दस णाता दस णव य 25 धम्मकहातो दसहिं परोप्परं सुद्धा । एवं विसेसे कते सेसा णव णाता, ते णव चत्तालीसाए गुणिता जाता तिण्णि सता सट्ठा अक्खाइयाणं, एते अक्खाइयपंचसतेहिंतो सोधिता, तत्थ सेसं चत्तालं सतं, तं उवक्खाइयपंचसतेहिं गुणितं जाता उवक्खाइताणं सत्तरिं सहस्सा, ते पंचहिं अक्खाइतोवक्खाइयसतेहिं गुणिता एवं जाता अद्भुट्ठातो अक्खाइयकोडीतो ।” इति नन्दीचूर्णी ।
अभयदेवसूरिभिः ज्ञाताधर्मकथाङ्गस्य स्वरूपं यादृशं वर्णितं तादृशमेव वर्णनं विधाय 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566