Book Title: Agam 04 Ang 04 Samvayanga Sutram Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 500
________________ तृतीयं परिशिष्टम् । १५ वैताढ्यस्य धनुःपृष्ठम् । तथाहि- वैताढ्यस्येषुः कलानां चतुःपञ्चाशच्छतानि पञ्चसप्तत्यधिकानि ५४७५, अस्य वर्गो विधीयते जातो द्विकः नवकः नवकः सप्तकः पञ्चकः षट्कः द्विकः पञ्चकः २९९७५६२५ । भूय एष राशिः षड्भिर्गुण्यते, जात एककः सप्तकः नवकः अष्टकः पञ्चकः त्रिकः सप्तकः पञ्चकः शून्यम् १७९८५३७५० । एष राशिर्वैताढ्यसत्के जीवावर्गे चतुष्कः एककः चतुष्कः नवकः शून्यं शून्यं नवकः सप्तकः पञ्चकः शून्यं शून्यम् ४१४९००९७५०० इत्येवंरूपे प्रक्षिप्यते, 5 ततो जातमिदम्- चतुष्कः एककः षट्कः षट्कः नवकः नवकः पञ्चकः एककः द्विकः पञ्चकः शून्यम् ४१६६९९५१२५० । अस्य वर्गमूलानयने लब्धं द्वे लक्षे चत्वारि सहस्राणि शतमेकं द्वात्रिंशदधिकं कलानाम् २०४१३२ । शेषस्तूपरितनो राशिस्तिष्ठति सप्तसप्ततिसहस्राणि अष्टौ शतानि षड्विंशत्यधिकानि ७७८२६, छेदराशिश्चतम्रो लक्षा अष्टौ सहस्राणि द्वे शते चतुःषष्ट्यधिके ४०८२६४। वर्गमूललब्धस्तु राशिर्योजनकरणार्थमेकोनविंशत्या भज्यते, लब्धानि योजनानां दश 10 सहस्राणि सप्त शतानि त्रिचत्वारिंशदधिकानि कलाः पञ्चदश १०७४३ क० १५ ॥४५॥” इति बृहत्क्षेत्रसमासे मलयगिरिसूरिविरचितायां वृत्तौ ॥ [पृ०२०८ पं०१९] दिगम्बरपरम्परायां तत्त्वार्थराजवार्तिके यादृशमाचाराङ्गादिस्वरूपं वर्णितं तदनोपन्यस्यते- “अङ्गप्रविष्टमाचारादिद्वादशभेदं बुद्ध्यतिशयर्द्धियुक्तगणधरानुस्मृतग्रन्थरचनम् ।१२। भगवदर्हत्सर्वज्ञहिमवन्निर्गतवाग्गङ्गाऽर्थविमलसलिलप्रक्षालितान्तःकरणैः बुद्ध्यतिशयर्द्धियुक्तैर्गण- 15 धरैरनुस्मृतग्रन्थरचनम् आचारादिद्वादशविधमङ्गप्रविष्टमित्युच्यते । तद्यथा-आचारः, सूत्रकृतम्, स्थानम्, समवायः, व्याख्याप्रज्ञप्तिः, ज्ञातृधर्मकथा, उपासकाध्ययनम्, अन्तकृद्दशा, अनुत्तरौपपातिकदशा, प्रश्नव्याकरणम्, विपाकसूत्रम्, दृष्टिवाद इति ।। आचारे चर्याविधानं शुद्ध्यष्टकपञ्चसमितित्रिगुप्तिविकल्पं कथ्यते ।। सूत्रकृते ज्ञानविनयप्रज्ञापना कल्प्याकल्प्यच्छेदोपस्थापना व्यवहारधर्मक्रियाः प्ररूप्यन्ते । 20 स्थाने अनेकाश्रयाणामर्थानां निर्णयः क्रियते । समवाये सर्वपदार्थानां समवायश्चिन्त्यते । स चतुर्विधः-द्रव्यक्षेत्रकालभावविकल्पैः। तत्र धर्माऽधर्मास्तिकायलोकाकाशैकजीवानां तुल्याऽसंख्येयप्रदेशत्वात् एकेन प्रमाणेन द्रव्याणां समवायनाद् द्रव्यसमवायः । जम्बूद्वीपसर्वार्थसिद्ध्यप्रतिष्ठाननरकनन्दीश्वरैकवापीनां तुल्ययोजनशतसहस्रविष्कम्भप्रमाणेन क्षेत्रसमवायनात् क्षेत्रसमवायः। उत्सर्पिण्यवसर्पिण्योस्तुल्यदशसागरोपमकोटिकोटिप्रमाणात् 25 कालसमवायनात् कालसमवायः । क्षायिकसम्यक्त्वकेवलज्ञानकेवलदर्शनयथाख्यातचारित्राणां यो भावः तदनुभवस्य तुल्यानन्तप्रमाणत्वात् भावसमवायनाद् भावसमवायः । व्याख्याप्रज्ञप्तौ षष्टिव्याकरणसहस्राणि 'किमस्ति जीवः, नास्ति' इत्येवमादीनि निरूप्यन्ते । ज्ञातृधर्मकथायाम् आख्यानोपाख्यानानां बहुप्रकाराणां कथनम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566